ऋग्वेद · अध्याय 1.043
कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
वोचेम शंतमं हृदे ॥
यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे ।
यथा तोकाय रुद्रियम् ॥
यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति ।
यथा विश्वे सजोषसः ॥
गाथपतिम् मेधपतिं रुद्रं जलाषभेषजम् ।
तच् छंयोः सुम्नम् ईमहे ॥
यः शुक्र इव सूर्यो हिरण्यम् इव रोचते ।
श्रेष्ठो देवानां वसुः ॥
शं नः करत्य् अर्वते सुगम् मेषाय मेष्ये ।
नृभ्यो नारिभ्यो गवे ॥
अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् ।
महि श्रवस् तुविनृम्णम् ॥
मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
आ न इन्दो वाजे भज ॥
यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य ।
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0