भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.040

1.040.01

उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे ।
उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा ॥

1.040.02

त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते ।
सुवीर्यम् मरुत आ स्वश्व्यं दधीत यो व आचके ॥

1.040.03

प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
अच्छा वीरं नर्यम् पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥

1.040.04

यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
तस्मा इळां सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम् ॥

1.040.05

प्र नूनम् ब्रह्मणस् पतिर् मन्त्रं वदत्य् उक्थ्यम् ।
यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥

1.040.06

तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रं देवा अनेहसम् ।
इमां च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् ॥

1.040.07

को देवयन्तम् अश्नवज् जनं को वृक्तबर्हिषम् ।
प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयं दधे ॥

1.040.08

उप क्षत्रम् पृञ्चीत हन्ति राजभिर् भये चित् सुक्षितिं दधे ।
नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc