ऋग्वेद · अध्याय 1.039
प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ ।
कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥
स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे ।
युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥
परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु ।
वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥
नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः ।
युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ॥
प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् ।
प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥
उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः ।
आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥
आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे ।
गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥
असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिं न विद्युतः ॥
असाम्य् ओजो बिभृथा सुदानवो ऽसामि धूतयः शवः ।
ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0