भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.038

1.038.01

कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः ।
दधिध्वे वृक्तबर्हिषः ॥

1.038.02

क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः ।
क्व वो गावो न रण्यन्ति ॥

1.038.03

क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता ।
क्वो3 विश्वानि सौभगा ॥

1.038.04

यद् यूयम् पृश्निमातरो मर्तासः स्यातन ।
स्तोता वो अमृतः स्यात् ॥

1.038.05

मा वो मृगो न यवसे जरिता भूद् अजोष्यः ।
पथा यमस्य गाद् उप ॥

1.038.06

मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् ।
पदीष्ट तृष्णया सह ॥

1.038.07

सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः ।
मिहं कृण्वन्त्य् अवाताम् ॥

1.038.08

वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति ।
यद् एषां वृष्टिर् असर्जि ॥

1.038.09

दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
यत् पृथिवीं व्युन्दन्ति ॥

1.038.10

अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् ।
अरेजन्त प्र मानुषाः ॥

1.038.11

मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु ।
यातेम् अखिद्रयामभिः ॥

1.038.12

स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् ।
सुसंस्कृता अभीशवः ॥

1.038.13

अच्छा वदा तना गिरा जरायै ब्रह्मणस् पतिम् ।
अग्निम् मित्रं न दर्शतम् ॥

1.038.14

मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः ।
गाय गायत्रम् उक्थ्यम् ॥

1.038.15

वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् ।
अस्मे वृद्धा असन्न् इह ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc