ऋग्वेद · अध्याय 1.037
क्रीळं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् ।
कण्वा अभि प्र गायत ॥
ये पृषतीभिर् ऋष्टिभिः साकं वाशीभिर् अञ्जिभिः ।
अजायन्त स्वभानवः ॥
इहेव शृण्व एषां कशा हस्तेषु यद् वदान् ।
नि यामञ् चित्रम् ऋञ्जते ॥
प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
देवत्तम् ब्रह्म गायत ॥
प्र शंसा गोष्व् अघ्न्यं क्रीळं यच् छर्धो मारुतम् ।
जम्भे रसस्य वावृधे ॥
को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः ।
यत् सीम् अन्तं न धूनुथ ॥
नि वो यामाय मानुषो दध्र उग्राय मन्यवे ।
जिहीत पर्वतो गिरिः ॥
येषाम् अज्मेषु पृथिवी जुजुर्वाँ इव विश्पतिः ।
भिया यामेषु रेजते ॥
स्थिरं हि जानम् एषां वयो मातुर् निरेतवे ।
यत् सीम् अनु द्विता शवः ॥
उद् उ त्ये सूनवो गिरः काष्ठा अज्मेष्व् अत्नत ।
वाश्रा अभिज्ञु यातवे ॥
त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् ।
प्र च्यावयन्ति यामभिः ॥
मरुतो यद् ध वो बलं जनाँ अचुच्यवीतन ।
गिरीँर् अचुच्यवीतन ॥
यद् ध यान्ति मरुतः सं ह ब्रुवते ऽध्वन्न् आ ।
शृणोति कश् चिद् एषाम् ॥
प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः ।
तत्रो षु मादयाध्वै ॥
अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् ।
विश्वं चिद् आयुर् जीवसे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0