भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.027

1.027.01

अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
सम्राजन्तम् अध्वराणाम् ॥

1.027.02

स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
मीढ्वाँ अस्माकम् बभूयात् ॥

1.027.03

स नो दूराच् चासाच् च नि मर्त्याद् अघायोः ।
पाहि सदम् इद् विश्वायुः ॥

1.027.04

इमम् ऊ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् ।
अग्ने देवेषु प्र वोचः ॥

1.027.05

आ नो भज परमेष्व् आ वाजेषु मध्यमेषु ।
शिक्षा वस्वो अन्तमस्य ॥

1.027.06

विभक्तासि चित्रभानो सिन्धोर् ऊर्मा उपाक आ ।
सद्यो दाशुषे क्षरसि ॥

1.027.07

यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः ।
स यन्ता शश्वतीर् इषः ॥

1.027.08

नकिर् अस्य सहन्त्य पर्येता कयस्य चित् ।
वाजो अस्ति श्रवाय्यः ॥

1.027.09

स वाजं विश्वचर्षणिर् अर्वद्भिर् अस्तु तरुता ।
विप्रेभिर् अस्तु सनिता ॥

1.027.10

जराबोध तद् विविड्ढि विशे-विशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकम् ॥

1.027.11

स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
धिये वाजाय हिन्वतु ॥

1.027.12

स रेवाँ इव विश्पतिर् दैव्यः केतुः शृणोतु नः ।
उक्थैर् अग्निर् बृहद्भानुः ॥

1.027.13

नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसम् आ वृक्षि देवाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc