ऋग्वेद · अध्याय 1.026
वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते ।
सेमं नो अध्वरं यज ॥
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
अग्ने दिवित्मता वचः ॥
आ हि ष्मा सूनवे पितापिर् यजत्य् आपये ।
सखा सख्ये वरेण्यः ॥
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
सीदन्तु मनुषो यथा ॥
पूर्व्य होतर् अस्य नो मन्दस्व सख्यस्य च ।
इमा उ षु श्रुधी गिरः ॥
यच् चिद् धि शश्वता तना देवं-देवं यजामहे ।
त्वे इद् धूयते हविः ॥
प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः ।
प्रियाः स्वग्नयो वयम् ॥
स्वग्नयो हि वार्यं देवासो दधिरे च नः ।
स्वग्नयो मनामहे ॥
अथा न उभयेषाम् अमृत मर्त्यानाम् ।
मिथः सन्तु प्रशस्तयः ॥
विश्वेभिर् अग्ने अग्निभिर् इमं यज्ञम् इदं वचः ।
चनो धाः सहसो यहो ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0