ऋग्वेद · अध्याय 1.028
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः ॥
यत्र द्वाव् इव जघनाधिषवण्या कृता ।
उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः ॥
यत्र नार्य् अपच्यवम् उपच्यवं च शिक्षते ।
उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः ॥
यत्र मन्थां विबध्नते रश्मीन् यमितवा इव ।
उलूखलसुतानाम् अवेद् व् इन्द्र जल्गुलः ॥
यच् चिद् धि त्वं गृहे-गृह उलूखलक युज्यसे ।
इह द्युमत्तमं वद जयताम् इव दुन्दुभिः ॥
उत स्म ते वनस्पते वातो वि वात्य् अग्रम् इत् ।
अथो इन्द्राय पातवे सुनु सोमम् उलूखल ॥
आयजी वाजसातमा ता ह्य् उ1च्चा विजर्भृतः ।
हरी इवान्धांसि बप्सता ॥
ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः ।
इन्द्राय मधुमत् सुतम् ॥
उच् छिष्टं चम्वोर् भर सोमम् पवित्र आ सृज ।
नि धेहि गोर् अधि त्वचि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0