ऋग्वेद · अध्याय 1.025
यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् ।
मिनीमसि द्यवि-द्यवि ॥
मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
मा हृणानस्य मन्यवे ॥
वि मृळीकाय ते मनो रथीर् अश्वं न संदितम् ।
गीर्भिर् वरुण सीमहि ॥
परा हि मे विमन्यवः पतन्ति वस्यïष्टये ।
वयो न वसतीर् उप ॥
कदा क्षत्रश्रियं नरम् आ वरुणं करामहे ।
मृळीकायोरुचक्षसम् ॥
तद् इत् समानम् आशाते वेनन्ता न प्र युच्छतः ।
धृतव्रताय दाशुषे ॥
वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् ।
वेद नावः समुद्रियः ॥
वेद मासो धृतव्रतो द्वादश प्रजावतः ।
वेदा य उपजायते ॥
वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः ।
वेदा ये अध्यासते ॥
नि षसाद धृतव्रतो वरुणः पस्त्या3स्व् आ ।
साम्राज्याय सुक्रतुः ॥
अतो विश्वान्य् अद्भुता चिकित्वाँ अभि पश्यति ।
कृतानि या च कर्त्वा ॥
स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् ।
प्र ण आयूंषि तारिषत् ॥
बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
परि स्पशो नि षेदिरे ॥
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
न देवम् अभिमातयः ॥
उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ ।
अस्माकम् उदरेष्व् आ ॥
परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु ।
इच्छन्तीर् उरुचक्षसम् ॥
सं नु वोचावहै पुनर् यतो मे मध्व् आभृतम् ।
होतेव क्षदसे प्रियम् ॥
दर्शं नु विश्वदर्शतं दर्शं रथम् अधि क्षमि ।
एता जुषत मे गिरः ॥
इमम् मे वरुण श्रुधी हवम् अद्या च मृळय ।
त्वाम् अवस्युर् आ चके ॥
त्वं विश्वस्य मेधिर दिवश् च ग्मश् च राजसि ।
स यामनि प्रति श्रुधि ॥
उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमं चृत ।
अवाधमानि जीवसे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0