भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.024

1.024.01

कस्य नूनं कतमस्यामृतानाम् मनामहे चारु देवस्य नाम ।
को नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥

1.024.02

अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम ।
स नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ॥

1.024.03

अभि त्वा देव सवितर् ईशानं वार्याणाम् ।
सदावन् भागम् ईमहे ॥

1.024.04

यश् चिद् धि त इत्था भगः शशमानः पुरा निदः ।
अद्वेषो हस्तयोर् दधे ॥

1.024.05

भगभक्तस्य ते वयम् उद् अशेम तवावसा ।
मूर्धानं राय आरभे ॥

1.024.06

नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त आपुः ।
नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम् ॥

1.024.07

अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः ।
नीचीनाः स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः केतवः स्युः ॥

1.024.08

उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ ।
अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥

1.024.09

शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु ।
बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् ॥

1.024.10

अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः ।
अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति ॥

1.024.11

तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
अहेळमानो वरुणेह बोध्य् उरुशंस मा न आयुः प्र मोषीः ॥

1.024.12

तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि चष्टे ।
शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ॥

1.024.13

शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु बद्धः ।
अवैनं राजा वरुणः ससृज्याद् विद्वाँ अदब्धो वि मुमोक्तु पाशान् ॥

1.024.14

अव ते हेळो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः ।
क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥

1.024.15

उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय ।
अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc