भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.018

1.018.01

सोमानं स्वरणं कृणुहि ब्रह्मणस् पते ।
कक्षीवन्तं य औशिजः ॥

1.018.02

यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः ।
स नः सिषक्तु यस् तुरः ॥

1.018.03

मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य ।
रक्षा णो ब्रह्मणस् पते ॥

1.018.04

स घा वीरो न रिष्यति यम् इन्द्रो ब्रह्मणस् पतिः ।
सोमो हिनोति मर्त्यम् ॥

1.018.05

त्वं तम् ब्रह्मणस् पते सोम इन्द्रश् च मर्त्यम् ।
दक्षिणा पात्व् अंहसः ॥

1.018.06

सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् ।
सनिम् मेधाम् अयासिषम् ॥

1.018.07

यस्माद् ऋते न सिध्यति यज्ञो विपश्चितश् चन ।
स धीनां योगम् इन्वति ॥

1.018.08

आद् ऋध्नोति हविष्कृतिम् प्राञ्चं कृणोत्य् अध्वरम् ।
होत्रा देवेषु गच्छति ॥

1.018.09

नराशंसं सुधृष्टमम् अपश्यं सप्रथस्तमम् ।
दिवो न सद्ममखसम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc