भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.017

1.017.01

इन्द्रावरुणयोर् अहं सम्राजोर् अव आ वृणे ।
ता नो मृळात ईदृशे ॥

1.017.02

गन्तारा हि स्थो ऽवसे हवं विप्रस्य मावतः ।
धर्तारा चर्षणीनाम् ॥

1.017.03

अनुकामं तर्पयेथाम् इन्द्रावरुण राय आ ।
ता वां नेदिष्ठम् ईमहे ॥

1.017.04

युवाकु हि शचीनां युवाकु सुमतीनाम् ।
भूयाम वाजदाव्नाम् ॥

1.017.05

इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् ।
क्रतुर् भवत्य् उक्थ्यः ॥

1.017.06

तयोर् इद् अवसा वयं सनेम नि च धीमहि ।
स्याद् उत प्ररेचनम् ॥

1.017.07

इन्द्रावरुण वाम् अहं हुवे चित्राय राधसे ।
अस्मान् सु जिग्युषस् कृतम् ॥

1.017.08

इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्व् आ ।
अस्मभ्यं शर्म यच्छतम् ॥

1.017.09

प्र वाम् अश्नोतु सुष्टुतिर् इन्द्रावरुण यां हुवे ।
याम् ऋधाथे सधस्तुतिम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc