भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.016

1.016.01

आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
इन्द्र त्वा सूरचक्षसः ॥

1.016.02

इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
इन्द्रं सुखतमे रथे ॥

1.016.03

इन्द्रम् प्रातर् हवामह इन्द्रम् प्रयत्य् अध्वरे ।
इन्द्रं सोमस्य पीतये ॥

1.016.04

उप नः सुतम् आ गहि हरिभिर् इन्द्र केशिभिः ।
सुते हि त्वा हवामहे ॥

1.016.05

सेमं नः स्तोमम् आ गह्य् उपेदं सवनं सुतम् ।
गौरो न तृषितः पिब ॥

1.016.06

इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
ताँ इन्द्र सहसे पिब ॥

1.016.07

अयं ते स्तोमो अग्रियो हृदिस्पृग् अस्तु शंतमः ।
अथा सोमं सुतम् पिब ॥

1.016.08

विश्वम् इत् सवनं सुतम् इन्द्रो मदाय गच्छति ।
वृत्रहा सोमपीतये ॥

1.016.09

सेमं नः कामम् आ पृण गोभिर् अश्वैः शतक्रतो ।
स्तवाम त्वा स्वाध्यः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc