भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.015

1.015.01

इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः ।
मत्सरासस् तदोकसः ॥

1.015.02

मरुतः पिबत ऋतुना पोत्राद् यज्ञम् पुनीतन ।
यूयं हि ष्ठा सुदानवः ॥

1.015.03

अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
त्वं हि रत्नधा असि ॥

1.015.04

अग्ने देवाँ इहा वह सादया योनिषु त्रिषु ।
परि भूष पिब ऋतुना ॥

1.015.05

ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् ऋतूँर् अनु ।
तवेद् धि सख्यम् अस्तृतम् ॥

1.015.06

युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
ऋतुना यज्ञम् आशाथे ॥

1.015.07

द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
यज्ञेषु देवम् ईळते ॥

1.015.08

द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
देवेषु ता वनामहे ॥

1.015.09

द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
नेष्ट्राद् ऋतुभिर् इष्यत ॥

1.015.10

यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे ।
अध स्मा नो ददिर् भव ॥

1.015.11

अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता ।
ऋतुना यज्ञवाहसा ॥

1.015.12

गार्हपत्येन सन्त्य ऋतुना यज्ञनीर् असि ।
देवान् देवयते यज ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc