ऋग्वेद · अध्याय 1.014
ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
देवेभिर् याहि यक्षि च ॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
देवेभिर् अग्न आ गहि ॥
इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् ।
आदित्यान् मारुतं गणम् ॥
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
द्रप्सा मध्वश् चमूषदः ॥
ईळते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः ।
हविष्मन्तो अरंकृतः ॥
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
आ देवान् सोमपीतये ॥
तान् यजत्राँ ऋतावृधो ऽग्ने पत्नीवतस् कृधि ।
मध्वः सुजिह्व पायय ॥
ये यजत्रा य ईड्यास् ते ते पिबन्तु जिह्वया ।
मधोर् अग्ने वषट्कृति ॥
आकीं सूर्यस्य रोचनाद् विश्वान् देवाँ उषर्बुधः ।
विप्रो होतेह वक्षति ॥
विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना ।
पिबा मित्रस्य धामभिः ॥
त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि ।
सेमं नो अध्वरं यज ॥
युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः ।
ताभिर् देवाँ इहा वह ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0