भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.013

1.013.01

सुसमिद्धो न आ वह देवाँ अग्ने हविष्मते ।
होतः पावक यक्षि च ॥

1.013.02

मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे ।
अद्या कृणुहि वीतये ॥

1.013.03

नराशंसम् इह प्रियम् अस्मिन् यज्ञ उप ह्वये ।
मधुजिह्वं हविष्कृतम् ॥

1.013.04

अग्ने सुखतमे रथे देवाँ ईळित आ वह ।
असि होता मनुर्हितः ॥

1.013.05

स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः ।
यत्रामृतस्य चक्षणम् ॥

1.013.06

वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः ।
अद्या नूनं च यष्टवे ॥

1.013.07

नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये ।
इदं नो बर्हिर् आसदे ॥

1.013.08

ता सुजिह्वा उप ह्वये होतारा दैव्या कवी ।
यज्ञं नो यक्षताम् इमम् ॥

1.013.09

इळा सरस्वती मही तिस्रो देवीर् मयोभुवः ।
बर्हिः सीदन्त्व् अस्रिधः ॥

1.013.10

इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये ।
अस्माकम् अस्तु केवलः ॥

1.013.11

अव सृजा वनस्पते देव देवेभ्यो हविः ।
प्र दातुर् अस्तु चेतनम् ॥

1.013.12

स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
तत्र देवाँ उप ह्वये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc