ऋग्वेद · अध्याय 1.012
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम् ॥
अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
हव्यवाहम् पुरुप्रियम् ॥
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥
ताँ उशतो वि बोधय यद् अग्ने यासि दूत्यम् ।
देवैर् आ सत्सि बर्हिषि ॥
घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
अग्ने त्वं रक्षस्विनः ॥
अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा ।
हव्यवाड् जुह्वास्यः ॥
कविम् अग्निम् उप स्तुहि सत्यधर्माणम् अध्वरे ।
देवम् अमीवचातनम् ॥
यस् त्वाम् अग्ने हविष्पतिर् दूतं देव सपर्यति ।
तस्य स्म प्राविता भव ॥
यो अग्निं देववीतये हविष्माँ आविवासति ।
तस्मै पावक मृळय ॥
स नः पावक दीदिवो ऽग्ने देवाँ इहा वह ।
उप यज्ञं हविश् च नः ॥
स नः स्तवान आ भर गायत्रेण नवीयसा ।
रयिं वीरवतीम् इषम् ॥
अग्ने शुक्रेण शोचिषा विश्वाभिर् देवहूतिभिः ।
इमं स्तोमं जुषस्व नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0