भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.011

1.011.01

इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिम् पतिम् ॥

1.011.02

सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते ।
त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम् ॥

1.011.03

पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः ।
यदी वाजस्य गोमतः स्तोतृभ्यो मंहते मघम् ॥

1.011.04

पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥

1.011.05

त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् ।
त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ॥

1.011.06

तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन् ।
उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः ॥

1.011.07

मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः ।
विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ॥

1.011.08

इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत ।
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc