भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.009

1.009.01

इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः ।
महाँ अभिष्टिर् ओजसा ॥

1.009.02

एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥

1.009.03

मत्स्वा सुशिप्र मन्दिभिः स्तोमेभिर् विश्वचर्षणे ।
सचैषु सवनेष्व् आ ॥

1.009.04

असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत ।
अजोषा वृषभम् पतिम् ॥

1.009.05

सं चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् ।
असद् इत् ते विभु प्रभु ॥

1.009.06

अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥

1.009.07

सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् ।
विश्वायुर् धेह्य् अक्षितम् ॥

1.009.08

अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीर् इषः ॥

1.009.09

वसोर् इन्द्रं वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् ।
होम गन्तारम् ऊतये ॥

1.009.10

सुते-सुते न्योकसे बृहद् बृहत एद् अरिः ।
इन्द्राय शूषम् अर्चति ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc