ऋग्वेद · अध्याय 1.008
एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
वर्षिष्ठम् ऊतये भर ॥
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
त्वोतासो न्य् अर्वता ॥
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि ।
जयेम सं युधि स्पृधः ॥
वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् ।
सासह्याम पृतन्यतः ॥
महाँ इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे ।
द्यौर् न प्रथिना शवः ॥
समोहे वा य आशत नरस् तोकस्य सनितौ ।
विप्रासो वा धियायवः ॥
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
उर्वीर् आपो न काकुदः ॥
एवा ह्य् अस्य सूनृता विरप्शी गोमती मही ।
पक्वा शाखा न दाशुषे ॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ।
सद्यश् चित् सन्ति दाशुषे ॥
एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या ।
इन्द्राय सोमपीतये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0