भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.010

1.010.01

गायन्ति त्वा गायत्रिणो ऽर्चन्त्य् अर्कम् अर्किणः ।
ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे ॥

1.010.02

यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् ।
तद् इन्द्रो अर्थं चेतति यूथेन वृष्णिर् एजति ॥

1.010.03

युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिराम् उपश्रुतिं चर ॥

1.010.04

एहि स्तोमाँ अभि स्वराभि गृणीह्य् आ रुव ।
ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥

1.010.05

उक्थम् इन्द्राय शंस्यं वर्धनम् पुरुनिष्षिधे ।
शक्रो यथा सुतेषु णो रारणत् सख्येषु च ॥

1.010.06

तम् इत् सखित्व ईमहे तं राये तं सुवीर्ये ।
स शक्र उत नः शकद् इन्द्रो वसु दयमानः ॥

1.010.07

सुविवृतं सुनिरजम् इन्द्र त्वादातम् इद् यशः ।
गवाम् अप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥

1.010.08

नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः ।
जेषः स्वर्वतीर् अपः सं गा अस्मभ्यं धूनुहि ॥

1.010.09

आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः ।
इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम् ॥

1.010.10

विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥

1.010.11

आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब ।
नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम् ॥

1.010.12

परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc