ऋग्वेद · अध्याय 1.007
इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।
इन्द्रं वाणीर् अनूषत ॥
इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि ।
वि गोभिर् अद्रिम् ऐरयत् ॥
इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिर् ऊतिभिः ॥
इन्द्रं वयम् महाधन इन्द्रम् अर्भे हवामहे ।
युजं वृत्रेषु वज्रिणम् ॥
स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
अस्मभ्यम् अप्रतिष्कुतः ॥
तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
न विन्धे अस्य सुष्टुतिम् ॥
वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा ।
ईशानो अप्रतिष्कुतः ॥
य एकश् चर्षणीनां वसूनाम् इरज्यति ।
इन्द्रः पञ्च क्षितीनाम् ॥
इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः ।
अस्माकम् अस्तु केवलः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0