रेवाखाण्ड (संशोधित पाठ) · अध्याय 93
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे यमहास्यतीर्थमाहात्म्यवर्णनं नाम द्विनवतितमो ऽध्यायः ॥
र्क्व् अध्याय 93
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र कल्होडीतीर्थमुत्तमम् ।
विख्यातं भारते लोके गङ्गायाः पापनाशनम्
दुर्लभं मनुजैः पार्थ रेवातटसमाश्रितम् ।
प्राणिनां पापनाशाय ऊषरं पुष्करं तथा
तत्तु तीर्थमिदं पुण्यमित्येवं शूलिनो वचः ।
जाह्नवी पशुरूपेण तत्र स्नानार्थमागता
अतस्तद्विश्रुतं लोके कल्होडीतीर्थमुत्तमम् ।
त्रिरात्रं कारयेत्तत्र पूर्णिमायां युधिष्ठिर
रजस्तमस्तथा क्रोधं दम्भं मात्सर्यमेव च ।
एतांस्त्यजति यः पार्थ तेनाप्तं मोक्षजं फलम्
पयसा स्नापयेद् देवं त्रिसन्ध्यं च त्र्यहं तथा ।
पयो गोसम्भवं सद्यः सवत्सा जीवपुत्रिणी
कृत्वा तत्ताम्रजे पात्रे क्षौद्रेण चैव योजिते ।
ओं नमः श्रीशिवायेति स्नानं देवस्य कारयेत्
स याति त्रिदशस्थानं नाकस्त्रीभिः समावृतः ।
यस्तत्र विधिवत्स्नात्वा दानं प्रेतेषु यच्छति
शुक्लां गां दापयेत् तत्र प्रीयतां मे पितामहाः ।
ब्राह्मणे शौचसम्पन्ने स्वदारनिरते सदा
सवत्सां वस्त्रसंयुक्तां हिरण्योपरि संस्थिताम् ।
सत्त्वयुक्तो ददद् राजञ्छाम्भवं लोकमाप्नुयात्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0