भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 92

92.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चण्डादित्यतीर्थमाहात्म्यवर्णनं नामैकनवतितमो ऽध्यायः ॥
र्क्व् अध्याय 92
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र यमहास्यमनुत्तमम् ।
सर्वपापहरं तीर्थं नर्मदातटमाश्रितम्

92.2

युधिष्ठिर उवाच:
यमहास्यं कथं जातं पृथिव्यां द्विजपुंगव ।
एतत्सर्वं ममाख्याहि परं कौतूहलं हि मे

92.3

श्रीमार्कण्डेय उवाच:
साधु साधु महाप्राज्ञ पृष्टो ऽहं नृपनन्दन ।
स्नानार्थं नर्मदां पुण्यामागतस्ते पिता पुरा

92.4

रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथासौ निर्मलो जातो धर्मराजो युधिष्ठिर

92.5

स पश्यन्निर्मलं देहं हसन्प्रोवाच विस्मितः

92.6

यम उवाच:
मत्पुरं कथम् आयान्ति मनुजाः पापबृंहिताः ।
स्नानेनैकेन रेवायाः प्राप्यते वैष्णवं पदम्

92.7

समर्था ये न पश्यन्ति रेवां पुण्यजलां शुभाम् ।
जात्यन्धैस्ते समा ज्ञेया मृतैः पङ्गुभिरेव वा

92.8

समर्था ये न पश्यन्ति रेवां पुण्यजलां नदीम् ।
एतस्मात् कारणाद् राजन्हसितो लोकशासनः

92.9

स्थापयित्वा यमस्तत्र देवं स्वर्गं जगाम ह ।
यमहासेश्वरे राजञ्जितक्रोधो जितेन्द्रियः

92.10

विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ।
उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते

92.11

रात्रौ जागरणं कुर्याद्दीपं देवस्य बोधयेत् ।
घृतेन चैव राजेन्द्र शृणु तत्रास्ति यत्फलम्

92.12

मुच्यते पातकैः सर्वैर् अगम्यागमनोद्भवैः ।
अभक्ष्यभक्षणोद्भूतैर् अपेयापेयजैर् अपि

92.13

अवाह्यवाहिते यत्स्याद् अदोह्यादोहने यथा ।
स्नानमात्रेण तस्यैवं यान्ति पापान्यनेकधा

92.14

यमलोकं न वीक्षेत मनुजः स कदाचन ।
पित्ःणां परमं गुह्यमिदं भूमौ नरेश्वर

92.15

ददताम् अक्षयं सर्वं यमहास्ये न संशयः ।
अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान्

92.16

हिरण्यभूमिदानेन तिलदानेन भूयसा ।
कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः

92.17

विधानोक्तद्विजाग्र्याय ये प्रदास्यन्ति भक्तितः ।
हयं वा कुंजरं वाथ धूर्वहौ सीरसंयुतौ

92.18

कन्यां वसुमतीं गां च महिषीं वा पयस्विनीम् ।
ददते ये नृपश्रेष्ठ नोपसर्पन्ति ते यमम्

92.19

यमो ऽपि भवति प्रीतः प्रतिजन्म युधिष्ठिर ।
यमस्य वाहो महिषो महिष्यस्तस्य मातरः

92.20

तासां दानप्रभावेण यमः प्रीतो भवेद् ध्रुवम् ।
नासौ यममवाप्नोति यदि पापैः समावृतः

92.21

एतस्मात् कारणाद् अत्र महिषीदानमुत्तमम् ।
तस्याः शृङ्गे जलं कार्यं धूम्रवस्त्रानुवेष्टिता

92.22

आयसस्य खुराः कार्यास् ताम्रपृष्ठाः सुभूषिताः ।
लवणाचलं पूर्वस्यामाग्नेय्यां गुडपर्वतम्

92.23

कार्पासं याम्यभागं तु नवनीतं तु नैरृते ।
पश्चिमे सप्तधान्यानि वायव्ये तंदुलाः स्मृताः

92.24

सौम्ये तु काञ्चनं दद्याद् ईशाने घृतमेव च ।
प्रदद्याद्यमराजो मे प्रीयतामित्युदीरयन्

92.25

इत्युच्चार्य द्विजस्याग्रे यमलोकं महाभयम् ।
असिपत्त्रवनं घोरं यमचुल्ली सुदारुणा

92.26

रौद्रा वैतरणी चैव कुम्भीपाको भयावहः ।
कालसूत्रो महाभीमस् तथा यमलपर्वतौ

92.27

क्रकचं तैलयन्त्रं च श्वानो गृध्राः सुदारुणाः ।
निरुच्छ्वासा महानादा भैरवो रौरवस्तथा

92.28

एते घोरा याम्यलोके श्रूयन्ते द्विजसत्तम ।
त्वत्प्रसादेन ते सोम्यास्तीर्थस्यास्य प्रभावतः

92.29

दानस्यास्य प्रभावेण यमराजप्रसादतः ।
नरके ऽहं न यास्यामि द्विज जन्मनि जन्मनि

92.30

यमहास्यस्य चाख्यानम् इदं शृण्वन्ति ये नराः ।
ते ऽपि पापविनिर्मुक्ता न पश्यन्ति यमालयम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc