भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 94

94.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कल्होडीतीर्थमाहात्म्यवर्णनं नाम त्रिनवतितमो ऽध्यायः ॥
र्क्व् अध्याय 94
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं राजन्नन्दितीर्थं व्रजेच्छुभम् ।
सर्वपापहरं पुंसां नन्दिना निर्मितं पुरा

94.2

पापौघहतजन्तूनां मोक्षदं नर्मदातटे ।
अहोरात्रोषितो भूत्वा नन्दिनाथे युधिष्ठिर

94.3

पञ्चोपचारपूजायाम् अर्चयेन् नन्दिकेश्वरम् ।
रत्नानि चैव विप्रेभ्यो यो दद्याद् धर्मनन्दन

94.4

स याति परमं स्थानं यत्र वासः पिनाकिनः ।
सर्वसौख्यसमायुक्तो ऽप्सरोभिः सह मोदते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc