भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 76

76.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शङ्खचूडतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 76
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र पारेश्वरम् अनुत्तमम् ।
पराशरो महात्मा वै नर्मदायास्तटे शुभे

76.2

तपश्चचार विपुलं पुत्रार्थं पाण्डुनन्दन ।
हिमवद्दुहिता तेन गौरी नारायणी नृप

76.3

तोषिता परया भक्त्या नर्मदोत्तरके तटे ।
तस्य तुष्टा महादेवी शङ्करार्धाङ्गधारिणी

76.4

भोभो ऋषिवर श्रेष्ठ तुष्टाहं तव भक्तितः ।
वरं याचय मे विप्र पराशर महामते

76.5

पराशर उवाच:
परितुष्टासि मे देवि यदि देयो वरो मम ।
देहि पुत्रं भगवति सत्यशौचगुणान्वितम्

76.6

वेदाभ्यसनशीलं हि सर्वशास्त्रविशारदम् ।
तीर्थे चात्र भवेद् देवि सन्निधानवरेण तु

76.7

लोकोपकारहेतोश्च स्थीयतां गिरिनन्दिनि ।
पराशराभिधानेन नर्मदादक्षिणे तटे

76.8

श्रीदेव्युवाच:
एवं भवतु ते विप्र तत्रैवान्तरधीयत ।
पराशरो महात्मा वै स्थापयामास पार्वतीम्

76.9

शङ्करं स्थापयामास सुरासुरनमस्कृतम् ।
अच्छेद्यम् अप्रतर्क्यं च देवानां तु दुरासदम्

76.10

पराशरो महात्मा वै कृतार्थो ह्यभवन् नृप

76.11

तत्र तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः ।
स्त्र्यथवा पुरुषो वापि कामक्रोधविवर्जितः

76.12

माघे चैत्रे ऽथ वैशाखे श्रावणे नृपनन्दन ।
मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा

76.13

तत्र गत्वा शुभे स्थाने नर्मदादक्षिणे तटे

76.14

उपोष्य परया भक्त्या व्रतम् एतत् समाचरेत् ।
रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः

76.15

गीतं नृत्यं तथा वाद्यं कामक्रोधविवर्जितः ।
प्रभाते विमले प्राप्ते द्विजाः पूज्याः स्वशक्तितः

76.16

सम्पूज्य ब्राह्मणान् पार्थ धनदानहिरण्यतः ।
वस्त्रेण छत्रदानेन शय्याताम्बूलभोजनैः

76.17

प्रीणयेन्नर्मदातीरे ब्राह्मणाञ्छंसितव्रतान् ।
श्राद्धं कार्यं नृपश्रेष्ठ आमैः पक्वैर्जलेन च

76.18

स्त्रीणां चैव तु शूद्राणाम् आमश्राद्धं प्रशस्यते ।
आमं चतुर्गुणं देयं ब्राह्मणानां युधिष्ठिर

76.19

वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः ।
हस्तमात्रैः कुशैश्चैव तिलैश्चैवाक्षतैर्नृप

76.20

विप्रा उदङ्मुखाः कार्याः स्वयं वै दक्षिणामुखः ।
दर्भेषु निक्षिपेदन्नमित्युच्चार्य द्विजाग्रतः

76.21

प्रेता यान्तु परे लोके तीर्थस्यास्य प्रभावतः ।
पापं मे प्रशमं यातु एतु वृद्धिं शुभं सदा

76.22

वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम ।
एवमुच्चार्य विप्राय दानं देयं स्वशक्तितः

76.23

गोभूतिसहिरण्यादि चान्नं वस्त्रं स्वशक्तितः ।
दातव्यं पाण्डवश्रेष्ठ पारेश्वरवराश्रमे

76.24

ये शृण्वन्ति परं भक्त्या मुच्यन्ते सर्वपातकैः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc