रेवाखाण्ड (संशोधित पाठ) · अध्याय 77
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पारेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 77
श्रीमार्कण्डेय उवाच:
भीमेश्वरं ततो गच्छेत् सर्वपापक्षयंकरम् ।
सेवितं ऋषिसङ्घैश्च भीमव्रतधरैः शुभैः
तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः ।
जपेद् एकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरे
तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति ।
सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम्
दशभिर् जन्मभिर् जातं शतेन तु पुरा कृतम् ।
सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति किल्बिषम्
वैदिकं लौकिकं वापि जाप्यं जप्तं नरेश्वर ।
तत्क्षणाद् दहते सर्वं तृणं तु ज्वलनो यथा
न देवबलमाश्रित्य कदाचित् पापम् आचरेत् ।
अज्ञानान् नश्यते क्षिप्रं नोत्तरं तु कदाचन
तत्र तीर्थे तु यो दानं शक्तिम् आश्रित्य चाचरेत् ।
तदक्षय्यफलं सर्वं जायते पाण्डुनन्दन
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0