भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 75

75.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 75
श्रीमार्कण्डेय उवाच:
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
शङ्खचूडस्य नाम्ना वै प्रसिद्धं भूमिमण्डले

75.2

शङ्खचूडः स्वयं तत्र संस्थितः पाण्डुनन्दन ।
वैनतेयभयात्पार्थ सुखदनर्मदातटे

75.3

तत्र तीर्थे तु यो भक्त्या शुचिर् भूत्वा समाहितः ।
स्नापयेच्छङ्खचूडं तु क्षीरक्षौद्रेण सर्पिषा

75.4

रात्रौ जागरणं कुर्याद् देवस्याग्रे नराधिप ।
दधिभक्तेन सम्पूज्य ब्राह्मणाञ्छंसितव्रतान् ।
गोप्रदाने द्विजेन्द्रो ऽयं सर्वपापक्षयंकरः

75.5

तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टं प्रतर्पयेत् ।
स याति परमं लोकं शङ्करस्य वचो यथा

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc