भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 67

67.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मातृतीर्थमाहात्म्यवर्णनं नाम षट्षष्टितमो ऽध्यायः ॥
र्क्व् अध्याय 67
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं तात जलमध्ये व्यवस्थितम् ।
लुङ्केश्वरम् इति ख्यातं सुरासुरनमस्कृतम्

67.2

इदं तीर्थं महापुण्यं नानाश्चर्यं महीतले ।
अस्य तीर्थस्य माहात्म्यम् उत्पत्तिं शृणु भारत

67.3

आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।
कालपृष्ठ इति ख्यातः सुतो ब्रह्मसुतस्य च

67.4

गङ्गातटं समाश्रित्य चचार विपुलं तपः ।
अधोमुखो ऽपि संस्थित्वापिबद्धूमम् अहर्निशम्

67.5

ततश्चानन्तरं देवस्तिष्ठते ह्युमया सह ।
दृष्ट्वा तं पार्वती सा तु तपस्युग्रे व्यवस्थितम्

67.6

पश्य पश्य महादेव धूमाशी तिष्ठते नरः ।
प्रसीद तं कुरुष्वाद्य देहि शीघ्रं वरं विभो

67.7

ईश्वर उवाच:
यदुक्तं वचनं देवि न तन्मे रोचते प्रिये ।
स्वकार्यं च सदा चिन्त्यं परकार्यं विसर्जयेत्

67.8

मूर्खस्त्रीबालशत्रूणां यश्छन्देनानुवर्तते ।
व्यसने पतते घोरे सत्यमेतदुदीरितम्

67.9

देव्युवाच:
भार्ययाभ्यर्थितो भर्ता कारणं बहु भाषते ।
लघुत्वं याति सा नारी एवं शास्त्रेषु पठ्यते

67.10

प्राणत्यागं करिष्यामि यदि मां त्वं न मन्यसे ।
पार्वत्या प्रेरितो देवो गतो ऽसौ दानवं प्रति

67.11

ईश्वर उवाच:
किमर्थं पिबसे धूमं किमर्थं तप्यसे तपः ।
किं दुःखं किं नु सन्तापो वद कार्यमभीप्सितम्

67.12

युवा त्वं दृश्यसे ऽद्यापि वर्षविंशतिर् एव च ।
तदाचक्ष्व हि मे सर्वं तपसः कारणं महत्

67.13

दानव उवाच:
अचला दीयतां भक्तिर्मम स्थैर्यं तवोपरि ।
अपरं वर्षसाहस्रं निर्विघ्नं मे गतं विभो

67.14

दिवसानां सहस्रे द्वे पूर्णे त्वत्तपसा मम

67.15

ईश्वर उवाच:
याचयाभीप्सितं कार्यं तुष्टो ऽहं तव सुव्रत ।
देवस्य वचनं श्रुत्वा चिन्तयामास दानवः

67.16

किं नाकं याचयाम्यद्य किमद्य सकलां महीम् ।
एवं संचिन्तयामास कामबाणेन पीडितः

67.17

दानव उवाच:
यदि तुष्टो ऽसि मे देव वरं दास्यसि मे प्रभो ।
सङ्ग्रामैस्तु न तुष्टो ऽहं बलं नास्तीति किंचन

67.18

यस्य मूर्धन्यहं देव पाणिना समुपस्पृशे ।
देवदानवगन्धर्वो भस्मसाद्यातु तत्क्षणात्

67.19

ईश्वर उवाच:
यत्त्वया चिन्तितं किंचित्तत्सर्वं सफलं तव ।
उत्तिष्ठ गच्छ शीघ्रं त्वं भवनं प्रति दानव

67.20

दानव उवाच:
स्थीयतां देवदेवेश यावज्ज्ञास्यामि ते वरम् ।
युष्मन्मूर्ध्नि न्यसे पाणिं प्रत्ययो मे भवेद्यथा

67.21

ततश्चानन्तरं देवश्चिन्तयानो महेश्वरः ।
न स्कन्दो न हरिर्ब्रह्मा यः कार्येषु क्षमो ऽधुना

67.22

ज्ञात्वा चैवापदं प्राप्तां देवः प्रार्थयते वृषम् ।
अनेन सह पापेन युध्यस्व साम्प्रतं क्षणम्

67.23

करं प्रासारयद् दैत्यो देवं मूर्ध्नि किल स्पृशेत् ।
लाङ्गूलेनाहतो दैत्यो विषण्णः पतितो भुवि

67.24

देवस्तु दक्षिणामाशां गतश्चैवोमया सह ।
भयभीतो निरीक्षेत ग्रीवां भज्य पुनःपुनः

67.25

गते चादर्शनं देवे युयुधे वृषभेण सः ।
द्वावेतौ बलिनां श्रेष्ठौ युयुधाते महाबलौ

67.26

प्रहारैर् वज्रसदृशैः कोपेन घटिकात्रयम् ।
पाणिभ्यां न स्पृशेद् यो वै वृषभस्य शिरस्तथा

67.27

हत्वा लाङ्गूलपातेन आगतो वृषभस्तदा ।
उत्थितश्चाप्यसौ दैत्यो व्रजते वृषपृष्ठतः

67.28

वायुवेगेन सम्प्राप्तो यत्र देवो महेश्वरः ।
आगतं दानवं दृष्ट्वा वृषो वचनमब्रवीत्

67.29

आरुह्य पृष्ठे मे देव शीघ्रमेव हि गम्यताम् ।
आरुह्य वृषभं देवो जगाम चोमया सह

67.30

नाकं प्राप्तस् ततो देवो गतः शक्रस्य मन्दिरम् ।
नात्यजद्देवपृष्ठं तु दानवो बलदर्पितः

67.31

इन्द्रलोकं परित्यज्य ब्रह्मलोकं गतस्तदा ।
यत्रयत्र व्रजेद्देवो भयात्सह दिवौकसैः

67.32

अपश्यत्तत्र तत्रैव पृष्ठे लग्नं तु दानवम् ।
सर्वांल् लोकान् भ्रमित्वा तु देवो विस्मयमागतः

67.33

न स्थानं विद्यते किंचिद्यत्र विश्रम्यते क्षणम् ।
देवदानवयोस्तत्र युद्धं ज्ञात्वा सुदारुणम्

67.34

हर्षितात्मा मुनिस्तत्र चिरं नृत्यति नारदः ।
धन्यो ऽहमद्य मे जन्म जीवितं च सुजीवितम्

67.35

महान्तं च कलिं दृष्ट्वा संतोषः परमो ऽभवत् ।
देवदानवयोस्तत्र युद्धं त्यक्त्वा च नारदः

67.36

आजगाम ततो विप्रो यत्र देवो महेश्वरः ।
दृष्ट्वा देवो ऽथ तं विप्रं प्रतिपूज्याब्रवीद् इदम्

67.37

भो नारद मुनिश्रेष्ठ जानीषे केशवं क्वचित् ।
गत्वा तत्र च शीघ्रं त्वं केशवाय निवेदय

67.38

नारद उवाच:
देवदानवसिद्धानां गन्धर्वोरगरक्षसाम् ।
सर्वेषामेव देवेशो हरते ध्रुवमापदम्

67.39

असंभाव्यं न वक्तव्यं मनसापि न चिन्तयेत् ।
ईदृशीं नैव बुध्यामि आपदं च विभो तव

67.40

ईश्वर उवाच:
गच्छ नारद शीघ्रं त्वं यत्र देवो जनार्दनः ।
विदितं च त्वया सर्वं यत्कृतं दानवेन तु

67.41

अवध्यो दानवो ह्येष सेन्द्रैर् अपि मरुद्गणैः ।
गत्वा तु केशवं देवं निवेदय महामुने

67.42

नारद उवाच:
न तु गच्छाम्यहं देव सुप्तः क्षीरोदधौ सुखी ।
केशवः प्रेरणे ह्येषामादेशो दीयतां प्रभो

67.43

मात्रा स्वस्रा दुहित्रा वा राजानं च तथा प्रभुम् ।
गुरुं चैवादितः कृत्वा शयानं न प्रबोधयेत्

67.44

ईश्वर उवाच:
यदि क्वचिद् अगारेषु वह्निरुत्पद्यते महान् ।
निधनं यान्ति तत्रस्था यद् बुध्येर् अन्नसूरयः

67.45

नारद उवाच:
शीघ्रं गच्छ महादेव आत्मानं रक्ष सुप्रभो ।
गच्छाम्यहं न सन्देहो यत्र देवो जनार्दनः

67.46

ततो नन्दिमहाकालौ स्तम्भहस्तौ भयानकौ ।
जघ्नतुर्दानवं तत्र मुद्गरादिभिरायुधैः

67.47

त्रयो ऽपि च महाकायाः सप्ततालप्रमाणकाः ।
न शमो जायते तेषां युध्यतां च परस्परम्

67.48

ततश्चानन्तरं विप्रो ऽगच्छत् तं केशवं प्रति ।
सुप्तं क्षीरार्णवे ऽपश्यच्छेषपर्यङ्कसंस्थितम्

67.49

लक्ष्म्या पादयुगं गृह्य ऊरूपरि निवेशितम् ।
अप्सरोगीयमानं तु भक्त्यानम्य च केशवम्

67.50

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
उत्थापयस्व देवेशं लक्ष्मि त्वम् अविशङ्किता

67.51

नारदस्य वचः श्रुत्वा पदाङ्गुष्ठं व्यमर्दयत् ।
नारदस्तिष्ठते द्वारि उत्तिष्ठ मधुसूदन

67.52

देवो ऽपि नारदं दृष्ट्वा परं हर्षमुपागतः ।
स्वागतं तु मुनिश्रेष्ठ सुप्रभाताद्य शर्वरी

67.53

नारद उवाच:
अद्य मे सफलं देव प्रभातं तव दर्शनात् ।
कुशलं च न देवानां शीघ्रम् उत्तिष्ठ गम्यताम्

67.54

श्रीविष्णुरुवाच:
ब्रह्मा चेन्द्रश्च रुद्रश्च ये चान्ये तु मरुद्गणाः ।
आपदः कारणं यच्च तत्समाख्यातुम् अर्हसि

67.55

नारद उवाच:
दानवेन महातीव्रं तपस्तप्तं सुदारुणम् ।
रुद्रेण च वरो दत्तो भस्मत्वं मनसेप्सितम्

67.56

वरदानबलेनैव स देवं हन्तुम् अर्हति ।
ईदृशं चेष्टितं ज्ञात्वा नीतो देवो ऽमरैः सह

67.57

नारदस्य वचः श्रुत्वा जगाम समुनिर्हरिः ।
दृष्ट्वा देवस्तमीशानं गच्छन्तं दिशमुत्तराम्

67.58

दृष्ट्वा देवं च रुद्रो ऽथ परिष्वज्य पुनःपुनः ।
नमस्कृत्य जगन्नाथं देवं च मधुसूदनः

67.59

विष्णुर् उवाच:
भयस्य कारणं देव कथ्यतां च महेश्वर ।
देवदानवयक्षाणां प्रेषयेयं यमालयम्

67.60

ललाटे च कृतो धर्मो युष्माकं च महेश्वर ।
छित्त्वा शिरस्तथाङ्गानि इन्द्रियाणि न संशयः

67.61

ईश्वर उवाच:
नास्ति सौख्यं च मूर्खेषु नास्ति सौख्यं च रोगिषु ।
पराधीनेन सौख्यं तु स्त्रीजिते च विशेषतः

67.62

स्त्रीजितेन मया विष्णो वरो दत्तस्तु दानवे ।
यस्य मूर्ध्नि न्यसेत्पाणिं स भवेद् भस्मपुंजवत्

67.63

अजेयश्चामरश्चैव मया ह्युक्तः स केशव ।
हन्तुमिच्छति मां पाप उपायस्तव विद्यते

67.64

विष्णुरुवाच:
गच्छन्तु अमराः सर्वे युष्माभिः सह शङ्कर ।
उपायं सर्जयाम्यद्य वधार्थं दानस्य च

67.65

रेवायाश्च तटे तिष्ठ देव त्वममरैः सह ।
कालक्षेपो न कर्तव्यो गम्यतां त्वरितं प्रभो

67.66

दक्षिणा यत्र गङ्गा च रेवा चैव महानदी ।
यत्रयत्र च दृश्येत प्राची चैव सरस्वती

67.67

तत्समं च महातीर्थं न मर्त्ये चैव दृश्यते ।
स्नानं ये तत्र कुर्वन्ति दानं चैव तु भक्तितः

67.68

सप्तजन्मकृतं पापं नश्यते नात्र संशयः ।
एतत् तीर्थं महापुण्यं सर्वपातकनाशनम्

67.69

गम्यतां तत्र देवेश लुङ्केशं त्वं सहामरैः ।
विष्णोस्तु वचनादेव प्रविष्टो ह्रदमुत्तमम्

67.70

रतिं सुमहतीं चक्रे सह तत्र मरुद्गणैः ।
ततश्चानन्तरं देवो मायां कृत्वा ह्यनेकधा

67.71

वसन्तमासं संसृज्य उद्यानवनशोभितम् ।
अशोकैर्बकुलैश्चैव ब्रह्मवृक्षैः सुशोभनैः

67.72

श्रीवृक्षैश्च कपित्थैश्च शिरीषैर् राजचम्पकैः ।
श्रीफलैश्च तथा तालैः कदम्बोदुम्बरैस् तथा

67.73

अश्वत्थादिद्रुमैश्चैव नानावृक्षैरनेकशः ।
नानापुष्पैः सुगन्धाढ्यैर्भ्रमरैश्च निनादितम्

67.74

तस्मिन्मध्ये महावृक्षो न्यग्रोधश्च सुशोभनः ।
बहुपक्षिसमायुक्तः कोकिलारावनादितः

67.75

कृष्णेन च कृतं तस्मिन्कन्यारूपं च तत्क्षणात् ।
न तस्याः सदृशी कन्या त्रैलोक्ये सचराचरे

67.76

अन्याश्च कन्यकाः सप्त सुरूपाः शुभलोचनाः ।
दिव्यरूपधराः सर्वा दिव्याभरणभूषिताः

67.77

पुमांसमभिकाङ्क्षन्त्यो यद्येकः कामयेत् स्त्रियः ।
मौक्तिकैर् रत्नमाणिक्यैर् वैडूर्यैश्च सुशोभनैः

67.78

कामहारैश्च वंशैश्च बद्धो हिन्दोलकः कृतः ।
आरूढाश्च महाकन्या गायन्ते सुस्वरं तदा

67.79

मारुतः शीतलो वाति वनं स्पृष्ट्वा सुशोभनम् ।
वातेन प्रेरितो गन्धो दानवो घ्राणपीडितः

67.80

ततः कुसुमगन्धेन विस्मयं परमं गतः ।
आघ्राय चेदृशं पुण्यं न दृष्टं न श्रुतं मया

67.81

वने चिन्तयतः किंचिद् ध्वनिगीतं सुशोभनम् ।
गीतस्य च ध्वनिं श्रुत्वा मोहितो मायया हरेः

67.82

व्याधस्यैव महाकूटे पतन्ति च यथा मृगाः ।
कालस्पृष्टस्तथा कृष्णे पतितश्च नराधिप

67.83

दृष्ट्वा कन्यां च तां दैत्यो मूर्च्छया पतितो भुवि ।
पतितेन तु दृष्टैका कन्या वटतले स्थिता

67.84

आस्यं दृष्ट्वा तु नारीणां पुनः कामेन पीडितः ।
गृहीत्वा हेमदण्डं तु तां पातयितुम् इच्छति

67.85

कन्योवाच:
मा मानुस्पर्शयत्वं हि कुमार्यहं कुलोत्तम ।
भो मुञ्च मुञ्च मां शीघ्रं यावद्गच्छाम्यहं गृहम्

67.86

दानव उवाच:
अहं विवाहमिच्छामि त्वया सह सुशोभने ।
भूपृष्ठे सकले राज्ञी भवस्येवं न संशयः

67.87

कन्योवाच:
पिता रक्षति कौमार्ये भर्ता रक्षति यौवने ।
पुत्रो रक्षति वृद्धत्वे न स्त्री स्वातन्त्र्यम् अर्हति

67.88

न स्वातन्त्र्यं ममैवास्ति उत्पन्नाहं महत्कुले ।
याच्यस्तु मत्पिता भ्राता मातापि हि तथैव च

67.89

दानव उवाच:
यदि मां नेच्छसे त्वद्य स्वातन्त्र्यं नावलम्बसे ।
ममापि च तदा हत्या सत्यं च शुभलोचने

67.90

कन्योवाच:
विश्वासो नैव कर्तव्यो यादृशे तादृशे नरे ।
नराः स्त्रीषु विचित्राश्च लम्पटाः काममोहिताः

67.91

परिणीय तु मां त्वं हि भुङ्क्ष्व भोगान्मया सह ।
जन्मनाशो भवेत् पश्चान्न त्वं नान्यो भवेन्मम

67.92

ब्राह्मणी क्षत्रिणी वैशी शूद्री यावत् तथैव च ।
द्वितीयो न भवेद् भर्ता एकाकी चेह जन्मनि

67.93

दानव उवाच:
यत्त्वया गदितं वाक्यं तन्मया धारितं हृदि ।
प्रत्ययं मे कुरुष्वाद्य यत्ते मनसि रोचते

67.94

कन्योवाच:
जानीष्व गोपकन्यां मां क्रीडामि सखिभिः सह ।
अस्मत्कुलेषु यद्दिव्यं तत्कुरुष्व यथाविधि

67.95

न तद्दिव्यं कुले ऽस्माकं विषं कोशं न तत्तुला ।
गोपान्वयेषु सर्वेषु हस्तः शिरसि दीयते

67.96

कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः ।
तत्क्षणाद् भस्मसाद्भूतो दग्धस् तृणचयो यथा

67.97

केशवोपरि देवैस्तु पुष्पवृष्टिः शुभा कृता ।
हृष्टाः सर्वे ऽगमन्देवाः स्वस्थानं विगतज्वराः

67.98

क्षीरोदं केशवो गच्छत्कालपृष्ठे निपातिते ।
य इदं शृणुयाद्भक्त्या चरितं दानवस्य च

67.99

स जयी जायते नित्यं शङ्करस्य वचो यथा ।
एतस्मात् कारणाद् राजंल् लिङ्गेश्वरमिति श्रुतम्

67.100

लीनं च पातकं यस्मात् स्नानमात्रेण नश्यति ।
त्वगस्थि शोणितं मांसं मेदःस्नायुस्तथैव च

67.101

मज्जाशुक्रगतं पापं नश्यते जन्मकोटिजम् ।
लुङ्केश्वरे महाराज तोयं पिबति भक्तितः

67.102

त्रिभिः प्रसृतिमात्राभिः पापं याति सहस्रधा ।
विशेषेण चतुर्दश्यामुभौ पक्षौ तु चाष्टमी

67.103

उपोष्य यो नरो भक्त्या पित्ःणां पाण्डुनन्दन ।
उद्धृतास्तेन ते सर्वे नारकीयाः पितामहाः

67.104

काकिणीं चैव यो दद्याद् ब्राह्मणे वेदपारगे ।
तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत्

67.105

प्राप्तं तु नान्यथा राजञ्छङ्करो वदते त्विदम् ।
स्पर्शलिङ्गमिदं राजञ्छङ्करेण तु निर्मितम्

67.106

स्पर्शमात्रे मनुष्याणां रुद्रवासो ऽभिजायते ।
तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत्

67.107

एतस्मात् कारणाद् राजंल् लोकपालाश्च रक्षकाः ।
दुर्गा च रक्षणे सृष्टा चतुर्हस्तधरा शुभा

67.108

धनदो लोकपालेशो रक्षकश्चेश्वरस्य च ।
रक्षति च सदा कालं ग्रहव्यापाररूपतः

67.109

पुत्रभ्रातृसमारूपैः स्वामिसम्बन्धरूपिभिः ।
लङ्केश्वरं च राजेन्द्र देवैर्नाद्यापि मुच्यते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc