भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 68

68.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लुङ्केश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्टितमो ऽध्यायः ॥
र्क्व् अध्याय 68
श्रीमार्कण्डेय उवाच:
धनदस्य तु तत्तीर्थं ततो गच्छेद् युधिष्ठिर ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्

68.2

सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः ।
चैत्रमासत्रयोदश्यां शुक्लपक्षे जितेन्द्रियः

68.3

उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ।
पञ्चामृतेन राजेन्द्र स्नापयेद् धनदं बुधः

68.4

दीपं घृतेन दातव्यं गीतं वाद्यं च कारयेत् ।
प्रभाते पूजयेद् विप्रान् आत्मनः श्रेय इच्छति

68.5

प्रतिग्रहसमर्थांश्च विद्यासिद्धान्तवादिनः ।
श्रौतस्मार्तक्रियायुक्तान् परदारपराङ्मुखान्

68.6

पूजयेद्गोहिरण्येन वस्त्रोपानहभोजनैः ।
छत्रशय्याप्रदानेन सर्वपापक्षयो भवेत्

68.7

त्रिजन्मजनितं पापं वरदस्य प्रभावतः ।
स्वर्गदं दुर्विनीतानां विनीतानां च मोक्षदम्

68.8

अन्नदं च दरिद्राणां भवेज्जन्मनिजन्मनि ।
कुलीनत्वं दुःखहानिः स्वभावाजायते नरे

68.9

व्याधिध्वंसो भवेत् तेषां नर्मदोदकसेवनात् ।
धनदस्य तु यस्तीर्थे विद्यादानं प्रयच्छति

68.10

स याति भास्करे लोके सर्वव्याधिविवर्जिते ।
देवद्रोणीं च तत्रैव स्वशक्त्या पाण्डुनन्दन

68.11

ये प्रकुर्वन्ति भूयिष्ठां रेवाया दक्षिणे तटे ।
ते यान्ति शांकरे लोके सर्वदुःखविवर्जिते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc