रेवाखाण्ड (संशोधित पाठ) · अध्याय 66
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आनन्देश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्टितमो ऽध्यायः ॥
र्क्व् अध्याय 66
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् ।
सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे
मातरस्तत्र राजेन्द्र संजाता नर्मदातटे ।
उमार्धनारिर् देवेशो व्यालयज्ञोपवीतधृक्
उवाच योगिनीवृन्दं कष्टंकष्टमहो हर ।
अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर
तीर्थमत्र विधानेन प्रख्यातं वसुधातले ।
एवं भवतु योगिन्य इत्युक्त्वान्तरधाच्छिवः
श्रीमार्कण्डेय उवाच:
तत्र तीर्थे तु यो भक्त्या नवम्यां नियतः शुचिः ।
उपोष्य परया भक्त्या पूजयेन्मातृगोचरम्
तस्य स्युर्मातरः प्रीताः प्रीतो ऽयं वृषवाहनः ।
वन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर
स्नापनं चारभेत्तत्र मन्त्रशास्त्रविदुत्तमः ।
सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितः
स्नापयेत् पुत्रकामायाः कांस्यपात्रेण देशिकः ।
पुत्रं सा लभते नारी वीर्यवन्तं गुणान्वितम्
यो यं काममभिध्यायेत्ततः स लभते नृप ।
मातृतीर्थात्परं तीर्थं न भूतं न भविष्यति
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0