भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 54

54.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गस्वर्गगमनवर्णनं नाम त्रिपञ्चाशत्तमो ऽध्यायः ॥
र्क्व् अध्याय 54
ईश्वर उवाच:
ततश्चानन्तरं राजा जगामोद्वेगम् उत्तमम् ।
कथं यामि गृहं त्वद्य वाराणस्याम् अहं पुनः

54.2

ब्रह्महत्यासमाविष्टो जुहोम्यग्नौ कलेवरम् ।
अथवा तस्य वाक्येन तं गच्छाम्याश्रमं प्रति

54.3

कथयामि यथावृत्तं गत्वा तस्य महामुनेः ।
एवं संचिन्त्य राजासौ जगामाश्रमसन्निधौ

54.4

ऋक्षशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः ।
दृष्टिमार्गे स्थितस्तस्य महर्षेर् भावितात्मनः

54.5

दीर्घतपा उवाच:
आगच्छ स्वागतं ते ऽस्तु आसने ऽत्रोपविश्यताम् ।
अर्घं ददाम्यहं येन मधुपर्कं सविष्टरम्

54.6

चित्रसेन उवाच:
अर्घस्यास्य न योग्यो ऽहं महर्षे नास्मि भाषणे ।
मृगमध्यस्थितो विप्रस् तव पुत्रो मया हतः

54.7

पुत्रघ्नं विद्धि मां विप्र तीव्रदण्डेन दण्डय ।
मृगभ्रान्त्या हतो विप्र ऋक्षशृङ्गो महातपाः

54.8

इति मत्वा मुनिश्रेष्ठ कुरु मे त्वं यथोचितम् ।
माता तद्वचनं श्रुत्वा गृहान् निष्क्रम्य विह्वला

54.9

हा हतास्मीत्युवाचेदं पपात धरणीतले ।
विललाप सुदुःखार्ता पुत्रशोकेन पीडिता

54.10

हा हता पुत्र पुत्रेति करुणं कुररी यथा ।
विललापातुरा माता क्व गतो मां विहाय वै ।
मुखं दर्शय चात्मीयं मातरं मां हि मानय

54.11

श्रुताध्ययनसम्पन्नं जपहोमपरायणम् ।
आगतं त्वां गृहद्वारे कदा द्रक्ष्यामि पुत्रक

54.12

लोकोक्त्या श्रूयते चैतच्चन्दनं किल शीतलम् ।
पुत्रगात्रपरिष्वङ्गश्चन्दनाद् अपि शीतलः

54.13

किं चन्दनेन पीयूपबिन्दुना किं किमिन्दुना

54.14

पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि

54.15

परिष्वजितुम् इच्छामि त्वामहं पुत्र सुप्रिय ।
पञ्चत्वम् अनुयास्यामि त्वद्विहीनाद्य दुःखिता

54.16

एवं विलपती दीना पुत्रशोकेन पीडिता ।
मूर्छिता विह्वला दीना निपपात महीतले

54.17

भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडिताम् ।
चुकोप स मुनिस्तत्र चित्रसेनाय भूभृते

54.18

दीर्घतपा उवाच:
याहि याहि महापाप मा मुखं दर्शयस्व मे ।
किं त्वया घातितो विप्रो ह्यकामाच्च सुतो मम

54.19

ब्रह्महत्या भविष्यन्ति बह्व्यस्ते वसुधाधिप ।
सकुटुम्बस्य मे त्वं हि मृत्युरेष उपस्थितः

54.20

एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनःपुनः ।
परित्यज्य तदा क्रोधं मुनिभावाज्जगाद ह

54.21

दीर्घतपा उवाच:
उद्वेगं त्यज भो वत्स दुरुक्तं गदितो मया ।
पुत्रशोकाभिभूतेन दुःखतप्तेन मानद

54.22

किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ।
प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी

54.23

अनेनैव विधानेन पञ्चत्वं विहितं मम ।
हत्यास्तव भविष्यन्ति पूर्वमुक्ता न संशयः

54.24

ब्रह्मक्षत्रविशां मध्ये शूद्रचण्डालजातिषु ।
कस्त्वं कथय सत्यं मे कस्माच्च निहतो द्विजः

54.25

चित्रसेन उवाच:
विज्ञापयामि विप्रर्षे क्षन्तव्यं ते ममोपरि ।
नाहं विप्रो ऽस्मि वै तात न वैश्यो न च शूद्रजः

54.26

न व्याधश्चान्त्यजातो वा क्षत्रियो ऽहं महामुने ।
काशीराजो मृगान् हन्तुम् आगतो वनमुत्तमम्

54.27

भ्रान्त्या निपातितो ह्येष मृगरूपधरो मुनिः ।
इदानीं तव पादान्ते संश्रितः पातकान्वितः

54.28

किं कर्तव्यं मया विप्र उपायं कथयस्व मे

54.29

दीर्घतपा उवाच:
ब्रह्महत्या न शक्येताप्येका निस्तरितुं प्रभो ।
दशैका च कथं शक्यास्ताः शृणुष्व नरेश्वर

54.30

चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः ।
मया सह न जीवन्ति ऋक्षशृङ्गस्य कारणे

54.31

उपायं शोभनं तात कथयिष्ये शृणुष्व तम् ।
शक्रो ऽपि यदि तं कर्तुं सुखोपायं नरेश्वर

54.32

सकुटुम्बं समस्तं मां दाहयित्वानले नृप ।
अस्थीनि नर्मदातोये शूलभेदे विनिक्षिप

54.33

नर्मदादक्षिणे कूले शूलभेदं हि विश्रुतम् ।
सर्वपापहरं तीर्थं सर्वदुःखघ्नमुत्तमम्

54.34

शुचिर्भूत्वा ममास्थीनि तत्र तीर्थे विनिक्षिप ।
मोक्ष्यसे सर्वपापैस् त्वं मम वाक्यान्न संशयः

54.35

राजोवाच:
आदेशो दीयतां तात करिष्यामि न संशयः ।
समस्तं मे ऽस्ति यत्किंचिद्राज्यं कोशः सुहृत्सुताः

54.36

तवाधीनं महाविप्र प्रयच्छामि प्रसीद मे ।
परस्परं विवदतोर्विप्र राज्ञोस्तदा नृप

54.37

स्फुटित्वा हृदयं शीघ्रं मुनिभार्या मृता तदा ।
पुत्रशोकसमाविष्टा निर्जीवा पतिता क्षितौ

54.38

पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः ।
स्नुषाश्चैव तदा सर्वा मृताश्च सह भर्तृभिः

54.39

पञ्चत्वं च गताः सर्वे मुनिमुख्या नृपोत्तम ।
विप्रान् आह्वापयामास ये तत्राश्रमवासिनः

54.40

तेभ्यो निवेदयामास यथावृत्तं नृपोत्तमः ।
स तैस्तदाभ्यनुज्ञातः काष्ठान्यादाय यत्नतः

54.41

दाहं संचयनं चक्रे चित्रसेनो महीपतिः ।
ऋक्षशृङ्गादिसर्वेषां गृहीत्वास्थीनि यत्नतः

54.42

याम्याशां प्रस्थितो राजा पादचारी महीपते ।
न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति

54.43

विश्रम्य च पुनर् गच्छेद् भाराक्रान्तो महीपतिः ।
सचैलं कुरुते स्नानं मुक्त्वास्थीनि पदे पदे

54.44

पिबेज्जलं निराहारः स गच्छन् दक्षिणामुखः ।
अचिरेणैव कालेन संगतो नर्मदातटम्

54.45

आश्रमस्थान् द्विजान् दृष्ट्वा पप्रच्छ पृथिवीपतिः

54.46

चित्रसेन उवाच:
कथ्यतां शूलभेदस्य मार्गं मे द्विजसत्तमाः ।
येन यामि महाभागाः स्वकार्यार्थस्य सिद्धये

54.47

मुनय ऊचुः ।
इतः क्रोशान्तराद् अर्वाक् तीर्थं परमशोभनम् ।
नर्मदादक्षिणे कूले ततो द्रक्ष्यसि नान्यथा

54.48

ऋषिवाक्येन राजासौ शीघ्रं गत्वा नरेश्वरः ।
स ददर्श ततः शीघ्रं बहुद्विजसमाकुलम्

54.49

बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् ।
ऋक्षसिंहसमाकीर्णं नानाव्रतधरैः शुभैः

54.50

एकपादास्थिताः केचिदपरे सूर्यदृष्टयः ।
एकाङ्गुष्ठ स्थिताः केचिद् ऊर्ध्वबाहुस्थिताः परे

54.51

दिनैकभोजनाः केचित् केचित् कन्दफलाशनाः ।
त्रिरात्रभोजनाः केचित्पराकव्रतिनो ऽपरे

54.52

चान्द्रायणरताः केचित् केचित् पक्षोपवासिनः ।
मासोपवासिनः केचित् केचिदृत्वन्तपारणाः

54.53

योगाभ्यासरताः केचित् केचिद्ध्यायन्ति तत्पदम् ।
शीर्णपर्णाशिनः केचित् केचिच्च कटुकाशनाः

54.54

शैवालभोजनाः केचित् केचिन्मारुतभोजनाः ।
गार्हस्थ्ये च स्थिताः केचित् केचिच्चैवाग्निहोत्रिणः

54.55

एवंविधान् द्विजान् दृष्ट्वा जानुभ्यामवनिं गतः ।
प्रणम्य शिरसा राजन्राजा वचनम् अब्रवीत्

54.56

चित्रसेन उवाच:
कस्मिन्देशे च तत् तीर्थं सत्यं कथयत द्विजाः ।
येनाभिवाञ्छिता सिद्धिः सफला मे भविष्यति

54.57

ऋषय ऊचुः ।
धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि ।
कुण्डं द्रक्ष्यसि तत्पूर्णं विस्तीर्णं पयसा शिवम्

54.58

तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य सन्निधौ ।
दृष्ट्वा चैव तु तत् तीर्थं भ्रान्तिर्जाता नृपस्य वै

54.59

ततो विस्मयमापन्नश्चिन्तयन्वै मुहुर्मुहुः ।
आकाशस्थं ददर्शासौ सामिषं कुररं नृपः

54.60

भ्रममाणं गृहीताहिं वध्यमानं निरामिषैः ।
परस्परं च युयुधुः सर्वे ऽप्यामिषकाङ्क्षया

54.61

हतश्चञ्चुप्रहारेण स ततः पतितो ऽंभसि ।
शूलेन शूलिना यत्र भूभागो भेदितः पुरा

54.62

तत्तीर्थस्य प्रभावेण स सद्यः पुरुषो ऽभवत् ।
विमानस्थं ददर्शासौ पुमांसं दिव्यरूपिणम्

54.63

गन्धर्वाप्सरसो यक्षास्तं यान्तं तुष्टुवुर् दिवि ।
अप्सरोगीयमाने तु गते सूर्यस्य मूर्धनि ।
चित्रसेनस् ततस्तस्मिन्नाश्चर्यं परमं गतः

54.64

ऋषिणा कथितं यद्वत्तद्वत्तीर्थं न संशयः ।
हृष्टरोमाभवद् दृष्ट्वा प्रभावं तीर्थसम्भवम्

54.65

ममाद्य दिवसो धन्यो यस्माद् अत्र समागतः ।
अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथाविधि

54.66

तिलमिश्रेण तोयेनातर्पयत् पितृदेवताः ।
गृह्यास्थीनि ततो राजा चिक्षेपान्तर्जले तदा

54.67

क्षणमेकं ततो वीक्ष्य राजोर्द्ध्ववदनः स्थितः ।
तान् ददर्श पुनः सर्वान् दिव्यरूपधराञ्छुभान्

54.68

दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ।
विमानैर् विविधैर् दिव्यैर् अप्सरोगणसेवितैः

54.69

पृथग्भूतांश्च तान् सर्वान् विमानेषु व्यवस्थितान् ।
उत्पत्तिवत्समालोक्य राजा संहर्षी सो ऽभवत्

54.70

ऋषिर्विमानम् आरूढश्चित्रसेनम् अथाब्रवीत् ।
भोभोः साधो महाराज चित्रसेन महीपते

54.71

त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममेदृषी ।
जातेयं यत्त्वया कार्यं कृतं परमशोभनम्

54.72

स्वसुतो ऽपि न शक्नोति पित्ःणां कर्तुमीदृशम् ।
मदीयवचनात् तात निष्पापस्त्वं भविष्यसि

54.73

फलं प्राप्स्यसि राजेन्द्र कामिकं मनसेप्सितम् ।
आशीर्वादांस् ततो दत्त्वा चित्रसेनाय धीमते ।
स्वर्गं जगाम ससुतस् ततो दीर्घतपा मुनिः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc