भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 53

53.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गचरित्रे दीर्घतपोमुन्याख्यानवर्णनं नाम द्विपञ्चाशत्तमो ऽध्यायः ॥
र्क्व् अध्याय 53
उत्तानपाद उवाच:
आश्रमे वसतस् तस्य स दीर्घतपसो मुनेः ।
कनीयांस् तनयो देव कथं मृत्युमुपागतः

53.2

ईश्वर उवाच:
शृणुष्वैकमना भूत्वा कथां दिव्यां महीपते ।
श्रवणादेव यस्यास्तु मुच्यते सर्वकिल्बिषैः

53.3

काशीराजो महावीर्यो महाबलपराक्रमः ।
चित्रसेन इति ख्यातां धरण्यां स नराधिप

53.4

तस्य राज्ये सदा धर्मो नाधर्मो विद्यते क्वचित् ।
वेदधर्मरतो नित्यं प्रजा धर्मेण पालयन्

53.5

स्वधर्मनिरतश्चैव युद्धातिथ्यप्रियः सदा ।
क्षत्रधर्मं समाश्रित्य भोगान्भुङ्क्ते स कामतः

53.6

कोशस्यान्तो न विद्येत हस्त्यश्वरथपत्तिमान् ।
इतिहासपुराणज्ञैः पण्डितैः सह संकथाम्

53.7

कथयन्राजते राजा कैलास इव शङ्करः ।
एवं स पालयन्राज्यं राजा मन्त्रिणम् अब्रवीत्

53.8

मृगयायां गमिष्यामि तिष्ठध्वं राज्यपालने ।
गम्यतां सचिवैः प्रोक्ते गतो ऽसौ वसुधाधिपः

53.9

अश्वारूढाश्च धावन्तो राजानो मण्डलाधिपाः ।
छत्रैश्छत्राणि घृष्यन्तो ऽनुजग्मुः काननं प्रति

53.10

रजस्तत्रोत्थितं भौमं गजवाजिपदाहतम् ।
तेनैतच्छादितं सर्वं सदिङ्मार्तण्डमंलम्

53.11

न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ।
पादपाश्च न दृश्यन्ते गिरिशृङ्गाणि सर्वतः

53.12

परस्परं न पश्यन्ति निशार्द्धे वार्षिके यथा ।
तत्रासौ सुमहद्यूथं मृगाणां समलक्ष्यत

53.13

अधावत्सहितः सर्वैः स राजा राजपुत्रकैः ।
वृन्दास्फोटो ऽभवत् तेषां शीघ्रं जग्मुर्दिशो दश

53.14

एकमार्गगतो राजा चित्रसेनो महीपतिः ।
एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः

53.15

प्रविष्टो ऽसौ ततो दुर्गं काननं गिरिगह्वरम् ।
वल्लीगुल्मसमाकीर्णं स्थितो यत्र न लक्ष्यते

53.16

अदृश्यांस्तु मृगान्मत्वा दिशो राजा व्यलोकयत् ।
कां दिशं नु गमिष्यामि क्व मे सैन्यसमागमः

53.17

एवं कष्टं गतो राजा चित्रसेनो नराधिपः ।
वृक्षच्छायां समाश्रित्य विश्राममकरोन्नृपः

53.18

क्षुत्तृषार्तो भ्रमन्दुर्गे कानने गिरिगह्वरे ।
ततो ऽपश्यत्सरो दिव्यं पद्मिनीखण्डमण्डितम्

53.19

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
ततो दृष्ट्वा स राजेन्द्रः सम्प्रहृष्टतनूरुहः

53.20

कमलानि गृहीत्वा तु ततः स्नानं समाचरत् ।
तर्पयित्वा पितृदेवान्मनुष्यांश्च यथाविधि

53.21

आच्छाद्य शतपत्रैश्च पूजयामास शङ्करम् ।
ययौ पानीयममलं यथावत्स समाहितः

53.22

उत्तीर्य सलिलात्तीरे दृष्ट्वा वृक्षं समीपगम् ।
उत्तरीयमधः कृत्वोपविष्टो धरणीतले

53.23

चिन्तयन्नुपविष्टो ऽसौ किमद्य प्रकरोम्यहम् ।
तत्रासीनो ददर्शाथ वनोद्देशे मृगान्बहून्

53.24

केचित्पूर्वमुखास्तत्र चापरे दक्षिणामुखाः ।
वारुण्यमिमुखाः केचित् केचित् कौबेरदिङ्मुखाः

53.25

केचिन् निद्रापराः केचिदूर्ध्वकर्णाः स्थिताः परे ।
मृगमध्ये स्थितो योगी ऋक्षशृङ्गो महातपाः

53.26

मृगान्दृष्ट्वा ततो राजा आहारार्थम् अचिन्तयत् ।
हत्वैतेषु मृगं कंचिद्भक्षयामि यदृच्छया

53.27

स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् ।
काशीं प्रति गमिष्यामि मार्गमन्विष्य यत्नतः

53.28

विचिन्त्यैवं ततो राजा वृक्षमूलमुपाश्रितः ।
चापं गृह्य कराग्रेण स शरं संदधे ततः

53.29

विचिक्षेप शरं तत्र यत्र ते बहवो मृगाः ।
तेषां मध्ये स वै विद्ध ऋक्षशृङ्गो महातपाः

53.30

जग्मुस्त्रस्तास्तु ते सर्वे शब्दं कृत्वा वनौकसः ।
स ऋषिः पतितस् तत्र कृष्ण कृष्णेति चाब्रवीत्

53.31

हाहा कष्टं कृतं तेन येनाहं घातितो ऽधुना ।
कस्यैषा दुर्मतिर्जाता पापबुद्धेर् ममोपरि

53.32

मृगमध्ये स्थितश्चाहं न कंचिद् उपरोधये ।
तां वाचं मानुषीं श्रुत्वा स राजा विस्मयान्वितः

53.33

शीघ्रं गत्वा ततो ऽपश्यद् ब्राह्मणं ब्रह्मतेजसा ।
हाहा कष्टं कृतं मे ऽद्य येनासौ घातितो द्विजः

53.34

चित्रसेन उवाच:
अकामाद्घातितस्त्वं तु मृगभ्रान्त्या मयानघ ।
गृहीत्वा बहुदारूणि स्वतनुं दाहयाम्यहम्

53.35

दृष्टादृष्टं तु यत्किंचिन्न समं ब्रह्महत्यया ।
अन्यथा ब्रह्महत्यायाः शुद्धिर् मे न भविष्यति

53.36

ऋक्षशृङ्ग उवाच:
न ते सिद्धिर् भवेत् काचिन्मयि पञ्चत्वमागते ।
बह्व्यो हत्या भविष्यन्ति विनाशे मम साम्प्रतम्

53.37

जननी मे पिता वृद्धो भ्रातरश्च तपस्विनः ।
भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वम् आगते

53.38

एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत् तव ।
उपायं कथयिष्यामि तं कर्तुं यदि मन्यसे

53.39

चित्रसेन उवाच:
उपायः कथ्यतां मे ऽद्य यस्ते मनसि वर्तते ।
करिष्ये तमहं सर्वं यत्नेनापि महामुने

53.40

ऋक्षशृङ्ग उवाच:
पृच्छामि त्वां कथं को वा कुतस्त्वमिह चागतः ।
ब्रह्मक्षत्रविशां मध्ये को भवानुत शूद्रजः

53.41

चित्रसेन उवाच:
नाहं शूद्रो ऽस्मि भोस्तात न वैश्यो ब्राह्मणो न वा ।
न चान्त्यजो ऽस्मि विप्रेन्द्र क्षत्रियो ऽस्मि महामुने

53.42

धर्मज्ञश्च कृतज्ञश्च सर्वसत्त्वहिते रतः ।
अकामात् पातकं जातं कथं शुद्धिर्भविष्यति

53.43

ऋक्षशृङ्ग उवाच:
मां गृहीत्वा आश्रमं गच्छ यत्र तौ पितरौ मम ।
आवेदयस्व चात्मानं पुत्रघातिनम् आतुरम्

53.44

ते दृष्ट्वा मां करिष्यन्ति कारुण्यं च तवोपरि ।
उपायं कथयिष्यन्ति येन शान्तिर्भविष्यति

53.45

तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तम ।
स्कन्धे कृत्वा तु तं विप्रं जगामाश्रमसन्निधौ

53.46

न शक्नोति यदा वोढुं विश्राम्यति पुनःपुनः ।
तावत् पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम्

53.47

मुमोच चित्रसेनस् तं छायायां वटभूरुहः ।
वस्त्रं चतुर्गुणं कृत्वा चक्रे वातं मुहुर्मुहुः

53.48

पश्यतस् तस्य राजेन्द्र ऋक्षशृङ्गो महातपाः ।
पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित्

53.49

दाहयामास तं विप्रं विधिदृष्टेन कर्मणा ।
स्नानं कृत्वा स शोकार्तो विललाप मुहुर्मुहुः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc