रेवाखाण्ड (संशोधित पाठ) · अध्याय 52
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमो ऽध्यायः ॥
र्क्व् अध्याय 52
ईश्वर उवाच:
अन्यदाख्यानकं वक्ष्ये पुरा वृत्तं नराधिप ।
सकुटुम्बो गतः स्वर्गं मुनिर्यत्र महातपाः
उत्तानपाद उवाच:
कथं नाकं गतो विप्रः सकुटुम्बो महानृषिः ।
कौतुकं परमं देव कथयस्व मम प्रभो
ईश्वर उवाच:
चित्रसेन इति ख्यातः काशीराजः पुराभवत् ।
शूरो दाता सुधर्मात्मा सर्वकामसमृद्धिमान्
सा पुरी जनसंकीर्णा नानारत्नोपशोभिता ।
वाराणसीति विख्याता गङ्गातीरम् उपाश्रिता
शरच्चन्द्रप्रतीकाशा विद्वज्जनविभूषिता ।
इन्द्रयष्टिसमाकीर्णा गोपगोकुलसंवृता
बहुध्वजसमाकीर्णा वेदध्वनिनिनादिता ।
वणिग्जनैर् बहुविधैः क्रयविक्रयशालिनी
यन्त्रादानैः प्रतोलीभिरुच्चैश्चान्यैः सुशोभिता ।
देवतायतनैर् दिव्यैर् आश्रमैर् गहनैर् युता
नानापुष्पफलैर् रम्या कदलीखण्डमण्डिता ।
पनसैर् बकुलैस् तालैर् अशोकैर् आम्रकैस् तथा
राजवृक्षकपित्थैश्च दाडिमैर् उपशोभिता ।
वेदाध्ययननिर्घोषैः पवित्रीकृतमङ्गला
तस्या उत्तरदिग्भागे आश्रमो ऽभूत्सुशोभनः ।
तन्मन्दारवनं नाम त्रिषु लोकेषु विश्रुतम्
बहुमन्दारसंयुक्तं तेन मन्दारकं विदुः ।
विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति
तपस्तपति सो ऽत्यर्थं तेन दीर्घतपाः स्मृतः ।
स तिष्ठति सपत्नीकः ससुतः सस्नुषस् तथा
शुश्रूषन्ति सदा तस्य पुत्राः पञ्च प्रयत्नतः ।
तस्य पुत्रः कनीयांस्तु ऋक्षशृङ्गो महातपाः
वेदाध्ययनसम्पन्नो ब्रह्मचारी गुणान्वितः ।
योगाभ्यासरतो नित्यं कन्दमूलफलाशनः
तिष्ठते मृगरूपेण मृगयूथचरस्तदा ।
दिनान्ते च दिनान्ते च मातापित्रोः समीपगः
अभिवादयते नित्यं भक्तिमान् मुनिपुत्रकः ।
पुनर्गच्छति तत्रैव कानने गिरिगह्वरे
क्रीडन्बालमृगैः सार्द्धं प्रत्यहं स मुनेः सुतः ।
कदाचिद्दैवयोगेन ऋक्षशृङ्गो ममार सः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0