रेवाखाण्ड (संशोधित पाठ) · अध्याय 51
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये पात्रापात्रपरीक्षादानादिनियमवर्णनं नाम पञ्चाशत्तमो ऽध्यायः ॥
र्क्व् अध्याय 51
उत्तानपाद उवाच:
काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर ।
यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत्
ईश्वर उवाच:
पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः
विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु ।
मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश
अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च
आषाढस्यैव दशमी माघस्यैव तु सप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा
मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः ।
अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत्
कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका ।
पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः
अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च ।
श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम्
मधुमासे सिते पक्ष एकादश्यामुपोषितः ।
निशि जागरणं कुर्याद् विष्णुपादसमीपतः
धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः ।
अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम्
ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः ।
दानं दद्याद् यथाशक्ति गोहिरण्याम्बरादिकम्
पितरस्तस्य तृप्यन्ति यावद् आभूतसम्प्लवम् ।
श्राद्धदस्तु व्रजेत् तत्र यत्र देवो जनार्दनः
त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके ।
दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः
उत्तानपाद उवाच:
गुहामध्ये महादेव लिङ्गं परमशोभितम् ।
येन प्रतिष्ठितं देव तन्ममाख्यातुम् अर्हसि
ईश्वर उवाच:
त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः ।
दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम्
गुहामध्यं प्रविष्टो ऽसौ योगाभ्यासमुपाश्रितः ।
लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम्
तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः ।
तत्र जागरणं कुर्वन् दद्याद् दीपं प्रयत्नतः
देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस् तथा ।
यथा शक्त्या समालभ्य पूजां कुर्याद् यथाविधि
स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर् द्विजातयः ।
सावित्र्यष्टसहस्रं तु शताष्टकम् अथापि वा
एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् ।
चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि
पात्रं परीक्ष्य दातव्यम् आत्मनः श्रेय इच्छता ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम्
दाता स गच्छते तत्र यत्र भोगाः सनातनाः ।
गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः
नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते ।
शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि
विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु ।
केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे
सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः ।
अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते
गयादिसर्वतीर्थानां फलमाप्नोति मानवः ।
विधिमन्त्रसमायुक्तस् तर्पयेत् पितृदेवताः
कुलानां तारयेद् विंशं दश पूर्वान् दशापरान् ।
दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः
न्यासं कृत्वा तु पूर्वोक्तं प्रदद्याद् अष्टपुष्पिकाम् ।
शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा
वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः ।
वानस्पत्यं भवेत् षष्ठं प्राजापत्यं तु सप्तमम्
अष्टमं शिवपुष्पं स्याद् एषां शृणु विनिर्णयम् ।
वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः
आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् ।
पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम्
प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना ।
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः
तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् ।
ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम्
सत्यं चैवाष्टमं पुष्पमेभिस् तुष्यन्ति देवताः ।
भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप
छत्रमावरणं दद्याद् उपानद्युगलं तथा ।
तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः
स्वर्गलोके वसेत् तावद् यावद् आभूतसम्प्लवम् ।
शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः
पञ्चामृतैः पञ्चगव्यैर् यक्षकर्दमकुङ्कुमैः ।
समालभेत देवेशं श्रीखण्डागुरुचन्दनैः
नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः ।
निशि जागरणं कुर्युर् दीपदानं प्रयत्नतः
धूपनैवेद्यकं दद्यात् पठेत्पौराणिकीं कथाम् ।
तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः
श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् ।
वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम्
ब्राह्मणान् पूजयेद् भक्त्या पूजयित्वा प्रणम्य च ।
नानाविधैर् महाभोगैः शिवलोके महीयते
अग्निम् इत्यादि जाप्यानि ऋग्वेदी जपते तु यः ।
रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम्
इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च ।
गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च
एताञ्जप्यांस्तु यो भक्त्या यजुर्वेदी जपेद् यदि ।
देवव्रतं वामदेव्यं पुरुषर्षभमेव च
बृहद्रथान्तरं चैव यो जपेद् भक्तितत्परः ।
स प्रयाति नरः स्थानं यत्र देवो महेश्वरः
पादशौचं तथाभ्यङ्गं कुरुते यो ऽत्र भक्तितः ।
गोदाने चैव यत्पुण्यं लभते नात्र संशयः
ब्राह्मणान् भोजयेत् तत्र मधुना पायसेन च ।
एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता
सुवर्णं रजतं वस्त्रं दद्याद् भक्त्या द्विजोत्तमे ।
तर्पितास्तेन देवाः स्युर् मनुष्याः पितरस् तथा
चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः ।
देवार्चनं ये च कुर्युर् जपं होमं विशेषतः ।
दद्याद् दानं यथाशक्ति ब्राह्मणे वेदपारगे
अश्वं रथं गजं यानं तुलापुरुषमेव च ।
शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम्
सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ ।
गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम्
अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता ।
यतो ऽसौ सर्वभूतानि दधाति धरणी किल
ततो विप्राय सा देया सर्वसस्यौघमालिनी ।
अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम्
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति
येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् ।
पृथ्वी दत्ता भवेत् तेन सशैलवनकानना
तारयेन्नियतं दत्ता कुलानाम् एकविंशतिम् ।
रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम्
ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे ।
तेषां संख्यां न जानामि पुण्यस्याब्दशातैर् अपि
सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप ।
चन्द्रसूर्योपरागे च दानसंख्या न विद्यते
यत्र गौर् दृश्यते राजन् सर्वतीर्थानि तत्र हि ।
तत्र पर्व विजानीयान्नात्र कार्या विचारणा
पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद् गमनं नरः ।
अथवा म्रियते यो ऽत्र रुद्रस्यानुचरो भवेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0