रेवाखाण्ड (संशोधित पाठ) · अध्याय 50
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदोत्पत्तिमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमो ऽध्यायः ॥
र्क्व् अध्याय 50
उत्तानपाद उवाच:
द्विजाश्च कीदृशाः पूज्या अपूज्याः कीदृशाः स्मृताः ।
श्राद्धे वैवाहिके कार्ये दाने चैव विशेषतः
यदि श्रद्धा भवेद् दैवयोगाच्छ्राद्धादिके विधौ ।
एतदाख्याहि मे देव कस्य दानं न दीयते
ईश्वर उवाच:
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः
यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला ।
यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः
यथा ऽनृणे बीजमुप्त्वा वप्ता न लभते फलम् ।
तथानृचे हविर्दत्त्वा न दाता लभते फलम्
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णी श्यावदन्तः सर्वाशी वृषलीपतिः
मित्रध्रुक् पिशुनः सोमविक्रयी परनिन्दकः ।
पितृमातृगुरुत्यागी नित्यं ब्राह्मणनिन्दकः
शूद्रान्नं मन्त्रसंयुक्तं यो विप्रो भक्षयेन्नृप ।
सो ऽस्पृश्यः कर्मचाण्डालः स्पृष्ट्वा स्नानं समाचरेत्
कुनखी वृषली स्तेयी वार्द्धुष्यः कुण्डगोलकौ ।
महादानरतो यश्च यश्चात्महनने रतः
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
एते विप्राः सदा त्याज्याः परिभाव्य प्रयत्नतः
प्रतिग्रहं गृहीत्वा तु वाणिज्यं यस्तु कारयेत् ।
तस्य दानं न दातव्यं वृथा भवति तस्य तत्
श्रुताध्ययनसम्पन्ना ये द्विजा वृत्ततत्पराः ।
तेषां यद्दीयते दानं सर्वमक्षयतां व्रजेत्
दरिद्रान्भर भूपाल मा समृद्धान् कदाचन ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः
उत्तानपाद उवाच:
कीदृशो ऽथ विधिस्तत्र तीर्थश्राद्धस्य का क्रिया ।
दानं च दीयते यद्वत् तन्ममाख्याहि शङ्कर
ईश्वर उवाच:
श्राद्धं कृत्वा गृहे भक्त्या शुचिश्चापि जितेन्द्रियः ।
गुरुं प्रदक्षिणीकृत्य भोज्य सीमान्तके ततः
वाग्यतः प्रव्रजेत् तावद् यावत् सीमां न लङ्घयेत् ।
शूलभेदं ततो गत्वा स्नानं कुर्याद् यथाविधि
पञ्चस्थानेषु च श्राद्धं हव्यकव्यादिभिः क्रमात् ।
पिण्डदानं च यः कुर्यात् पायसैर् मधुसर्पिषा
पितरस्तस्य तृप्यन्ति द्वादशाब्दानि पञ्च च ।
अक्षतैर् बदरैर् बिल्वैर् गुदमधुसर्पिषा
सापि तत्फलमाप्नोति तीर्थे ऽस्मिन्नात्र संशयः ।
उपानहौ च यो दद्याद्ब्राह्मणेभ्यः प्रयत्नतः
सो ऽपि स्वर्गम् अवाप्नोति हयारूढो न संशयः ।
शय्यामश्वं च यो दद्याच्छत्त्रिकां वा विशेषतः
गच्छेद् विमानमारूढः सो ऽप्सरोवृन्दवेष्टितः ।
उत्तमं यो गृहं दद्यात् सप्तधान्यसमन्वितम्
स्वेच्छया मे वसेल्लोके काञ्चने भवने हि सः ।
तिलधेनुं च यो दद्यात् सवत्सां वस्त्रसंप्लुताम्
नाकपृष्ठे वसेत् तावद् यावद् आभूतसम्प्लवम् ।
गृहे वा यदि वारण्ये तीर्थवर्त्मनि वा नृप
तोयमन्नं च यो दद्याद् यमलोकं स नेक्षते ।
सर्वदानानि दीयन्ते तेषां फलम् अवाप्यते
उदकं चात्र दानं च दद्याद् अभयम् एव च ।
अन्नदानात् परं दानं न भूतं न भविष्यति
कन्यादानं तु यः कुर्याद् वृषं वा यः समुत्सृजेत् ।
तस्य वासो भवेत् तत्र यत्राहम् इति नान्यथा
उत्तानपाद उवाच:
कन्यादानं कथं स्वामिन् कर्तव्यं धार्मिकैः सदा ।
परिग्रहो यथा पोष्यः कन्योद्वाहस् तथैव च
अन्यत्पृच्छामि देवेश कस्य कन्या न दीयते ।
दातव्यं कुत्र तद्देव कस्मै दत्तम् अथाक्षयम्
उत्तमं मध्यमं वापि कनीयः स्यात् कथं विभो ।
राजसं तामसं वापि निःश्रेयसम् अथापि वा
ईश्वर उवाच:
सर्वेषामेव दानानां कन्यादानं विशिष्यते ।
यो दद्यात्परया भक्त्याभिगम्य तनयां निजाम्
कुलीनाय सुरूपाय गुणज्ञाय मनीषिणे ।
सुलग्ने सुमुहूर्ते च दद्यात् कन्याम् अलंकृताम्
अश्वान्ना गांश्च वासांसि यो ऽत्र दद्यात्स्वशक्तितः ।
तस्य वासो भवेत् तत्र पदं यत्र निरामयम्
येनात्र दुहिता दत्ता प्राणेभ्यो ऽपि गरीयसी ।
तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम्
यः कन्यार्थं ततो लब्ध्वा भिक्षते चैव तद्धनम् ।
स भवेत् कर्मचण्डालः काष्ठकीलो भवेन् मृतः
गृहे ऽपि तस्य यो ऽश्नीयाज्जिह्वालौल्यात् कथंचन ।
चान्द्रायणेन शुध्येत तप्तकृच्छ्रेण वा पुनः
उत्तानपाद उवाच:
वित्तं न विद्यते यस्य कन्यैवास्ति च यद्गृहे ।
कथं चोद्वाहनं तस्य न याञ्चां कुरुते यदि
ईश्वर उवाच:
अवितेनैव कर्तव्यं कन्योद्वहनकं नृप ।
कन्यानाम समुच्चार्य न दोषाय कदाचन
अभिगम्योत्तमं दानं यच्च दानमयाचितम् ।
भविष्यति युगस्यान्तस्तस्यान्तो नैव विद्यते
अभिगम्योत्तमं दानं स्मृतम् आहूय मध्यमम् ।
याच्यमानं कनीयः स्याद् देहि देहीति चाधमम्
यथैवाश्माश्मनाबद्धो निक्षिप्तो वारिमध्यतः ।
द्वावेतौ निधनं यातस् तद्वद् अन्नम् अपात्रके
असमर्थे ततो दानं न प्रदेयं कदाचन ।
दातारं नयते ऽधस्तादात्मानं च विशेषतः
समर्थस्तारयेद्द्वौ तु काष्ठं शुष्कं यथा जले ।
यथा नौश्च तथा विद्वान्प्रापयेदपरं तटम्
आहिताग्निश्च गृह्णाति यः शूद्राणां प्रतिग्रहम् ।
इह जन्मनि शूद्रो ऽसौ मृतः श्वा चोपजायते
वृथा क्लेशश्च जायेत ब्राह्मणे ह्यग्निहोत्रिणि ।
असत्प्रतिग्रहं कुर्वन्गुप्तं नीचस्य गर्हितम्
अभोज्यः स भवेन्मर्त्यो दह्यते कारिषाग्निना ।
कटकारो भवेत् पश्चात् सप्त जन्म न संशयः
लज्जादाक्षिण्यलोभाच्च यद् दानं चोपरोधजम् ।
भृत्येभ्यश्च तु यद् दानं तद्वृथा निष्फलं भवेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0