रेवाखाण्ड (संशोधित पाठ) · अध्याय 49
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽन्धकवधतद्वरप्रदानवर्णनं नामाष्टचत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 49
मार्कण्डेय उवाच:
अन्धकं तु निहत्याथ देवदेवो महेश्वरः ।
उमया सहितो रुद्रः कैलासमगमन्नगम्
आगताश्च ततो देवा ब्रह्माद्याश्च सवासवाः ।
हृष्टास्तुष्टाश्च ते सर्वे प्रणेमुः पार्वतीपतिम्
ईश्वर उवाच:
उपाविशन्तु ते सर्वे ये केचन समागताः ।
निहतो दानवो ह्येष गीर्वाणार्थे पितामह
रक्तेन तस्य मे शूलं निर्मलं नैव जायते ।
शुभव्रततपोजप्यरतो ब्रह्मन्मया हतः
कर्तुमिच्छाम्यहं सम्यक् तीर्थयानं चतुर्मुख ।
आगच्छन्तु मया सार्द्धं ये यूयमिह संगताः
इत्युक्त्वा देवदेवेशः प्रभासं प्रतिनिर्ययौ ।
प्रभासाद्यानि तीर्थानि गङ्गासागरमध्यतः
अवगाह्यापि सर्वाणि नैर्मल्यं नाभवन्नृप ।
नर्मदायां ततो गत्वा देवो देवैः समन्वितः
उत्तरं दक्षिणं कूलम् अवागाहत् प्रियव्रतः ।
गतस्तु दक्षिणे कूले पर्वते भृगुसंज्ञितम्
तत्र स्थित्वा महादेवो देवैः सह महीपते ।
भ्रान्त्वा भ्रान्त्वा चिरं श्रान्तो निर्विण्णो निषसाद ह
मनोहारि यतः स्थानं सर्वेषां वै दिवौकसाम् ।
तीर्थं विशिष्टं तन्मत्वा स्थितो देवो महेश्वरः
गिरिं विव्याध शूलेन भिन्नं तेन रसातलम् ।
निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित्
देवैर् आह्वानिता तत्र महापुण्या च भारती ।
पर्वतान् निःसृता तत्र महापुण्या सरस्वती
द्वितीयः सङ्गमस् तत्र यथा वेण्यां सितासितः ।
तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गम् उत्तमम्
संस्थापयामास पुण्यं सर्वदुःखघ्नमुत्तमम् ।
तस्य याम्ये दिशो भागे स्वयं देवो जनार्दनः
तिष्ठते च सदा तत्र विष्णुपादाग्रसंस्थिता ।
अम्भसो न भवेन् मार्गः कुण्डमध्यस्थितस्य च
शूलाग्रेण कृता रेखा ततस् तोयं वहेन् नृप ।
तत् तोयं च गतं तत्र यत्र रेवा महानदी
जललिङ्गं महापुण्यं चकतीर्थं नृपोत्तम ।
शूलभेदे च देवेशः स्नानं कुर्याद् यथाविधि
आत्मानं मन्यते शुद्धं न किंचित् कल्मषं कृतम् ।
तस्यैवोत्तरकाष्ठायां देवदेवो जगद्गुरुः
आत्मना देवदेवेशः शूलपाणिः प्रतिष्ठितः ।
सर्वतीर्थेषु तत्तीर्थं सर्वदेवमयं परम्
सर्वपापहरं पुण्यं सर्वदुःखघ्नम् उत्तमम् ।
तत्र तीर्थे प्रतिष्ठाप्य देवदेवं जगद्गुरुः
रक्षापालांस् ततो मुक्त्वा शतं साष्टविनायकान् ।
क्षेत्रपालाः शतं साष्टं तद्रक्षन्ति प्रयत्नतः
विघ्नास्तस्योपजायन्ते यस्तत्र स्थातुम् इच्छति ।
केचित् कुटुम्बात्ततासु व्याग्राः केचित् कृषीषु च
केचित्सभां प्रकुर्वन्ति केचिद्द्रव्यार्जने रताः ।
परोक्षवादं कुर्वन्ति के ऽपि हिंसारताः सदा
परदाररताः केचित्केचिद्वृत्तिविहिंसकाः ।
अन्ये केचिद्वदन्त्येवं कथं तीर्थेषु गम्यते
क्षुधया पीड्यते भार्या पुत्रभृत्यादयस् तदा ।
मोहजालेषु योज्यन्ते एवं देवगणैर् नराः
पापाचाराश्च ये मर्त्याः स्नानं तेषां न जायते ।
संरक्षन्ति च तत्तीर्थं देवभृत्यगणाः सदा
धन्याः पुण्याश्च ये मर्त्यास् तेषां स्नानं प्रजायते ।
सरस्वत्या भोगवत्या देवनद्या विशेषतः
अयं तु सङ्गमः पुण्यो यथा वेण्यां सितासितः ।
दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टचेतसः
देवस्य सन्निधौ भूत्वा वर्णयामासुरुत्तमम् ।
इदं तीर्थं तु देवेश गयातीर्थेन ते समम्
गुह्याद्गुह्यतमं तीर्थं न भूतं न भविष्यति ।
शूलपाणिः समभ्यर्च्य इन्द्राद्यैरप्सरोगणैः
यक्षकिन्नरगन्धर्वैर् दिक्पालैर् लोकपैरपि ।
नृत्यगीतैस् तथा स्तोत्रैः सर्वैश्चापि सुरासुरैः
पूज्यमानो गणैः सर्वैः सिद्धैर् नागैर् महेश्वरः ।
देवेन भेदितं तत्र शूलाग्रेण नराधिप
त्रिधा यत्रेक्ष्यते ऽद्यापि ह्यावर्तः सुरपूरितः ।
कुण्डत्रयं नरव्याघ्र महत्कलकलान्वितम्
सर्वपापक्षयकरं सर्वदुःखघ्नम् उत्तमम् ।
तत्र तीर्थे तु यः स्नाति उपवासपरायणः
दीक्षामन्त्रविहीनो ऽपि मुच्यते चाब्दिकादघात् ।
ये पुनर्विधिवत्स्नान्ति मन्त्रैः पञ्चभिरेव च
वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यघटैः शुभैः ।
अक्षरैर् दशभिश्चैव षड्भिर्वा त्रिभिरेव वा
पृथग्भूतैर्द्विजातीनां तीर्थे कार्यं नराधिप ।
ब्रह्मक्षत्रविशां वापि स्त्रीशूद्राणां तथैव च
पुरुषाणां त्रयीं ध्यात्वा स्नानं कुर्याद् यथाविधि ।
दशाक्षरेण मन्त्रेण ये पिबन्ति जलं नराः
ते गच्छन्ति परं लोकं यत्र देवो महेश्वरः ।
केदारे च यथा पीतं रुद्रकुण्डे तथैव च
पञ्चरेफसमायुक्तं क्षकारं सुरपूजितम् ।
ओङ्कारेण समायुक्तम् एतद् वेद्यं प्रकीर्तितम्
यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रियः ।
तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः
कुलानां तारयेद् विंशं दशपूर्वान्दशापरान् ।
गयादिपञ्चस्थानेषु यः श्राद्धं कुरुते नरः
स तत्र फलमाप्नोति शूलभेदे न संशयः ।
यस्तत्र विधिना युक्तो दद्याद्दानानि भक्तितः
तुदक्षयं फलं तत्र सुकृतं दुष्कृतं तथा ।
गयाशिरो यथा पुण्यं पितृकार्येषु सर्वदा
शूलभेदं तथा पुण्यं स्नानदानादितर्पणैः ।
भक्त्या ददाति यस्तत्र काञ्चनं गां महीं तिलान्
आसनोपानहौ शय्यां वराश्वान् क्षत्रियस् तथा ।
वस्त्रयुग्मं च धान्यं च गृहं पूर्णं प्रयत्नतः
सयोक्त्रं लाङ्गलं दद्यात् कृष्टां चैव वसुंधराम् ।
दानान्येतानि यो दद्याद् ब्राह्मणे वेदपारगे
श्रोत्रिये कुलसम्पन्ने शुचिष्मति जितेन्द्रिये ।
श्रुताध्ययनसम्पन्ने दम्भहीने क्रियान्विते ।
त्रयोदशाहःस्वेकैकं त्रयोदशगुणं भवेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0