भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 5

5.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदापञ्चदशनामवर्णनं नाम चतुर्थो ऽध्यायः ॥
र्क्व् अध्याय 5
युधिष्ठिर उवाच:
आश्चर्यमेतदखिलं कथितं भो द्विजोत्तम ।
विस्मयं परमापन्ना ऋषिसंघा मया सह

5.2

अहो भगवती पुण्या नर्मदेयमयोनिजा ।
रुद्रदेहाद्विनिष्क्रान्ता महापापक्षयंकरी

5.3

सप्तकल्पक्षये प्राप्ते त्वयेयं सह सुव्रत ।
न मृता च महाभागा किमतः पुण्यमुत्तमम्

5.4

के ते कल्पाः समुद्दिष्टाः सप्त कल्पक्षयंकराः ।
न मृता चेदियं देवी त्वं चैव ऋषिपुंगव

5.5

अपक्षिगणसंघाते जगत्येकार्णवीकृते ।
कीदृग्रूपः समभवन्महादेवो युगक्षये

5.6

कथं संहरते विश्वं कथं चास्ते महार्णवे ।
कथं च सृजते विश्वं कथं धारयते प्रजाः

5.7

कीदृग्रूपा भवेद्देवी सरिद् एकार्णवीकृते ।
किमर्थं नर्मदा प्रोक्ता रेवती च कथं स्मृता

5.8

अञ्जनेति किमर्थं वा किमर्थं सुरसेति च ।
मन्दाकिनी किमर्थं च शोणश्चेति कथं भवेत्

5.9

त्रिकूटेति किमर्थं वा किमर्थं वालुवाहिनी ।
कोटिकोट्यो हि तीर्थानां प्रविष्टा या महार्णवम्

5.10

कियत्यः सरितां कोट्यो नर्मदां समुपासते ।
यज्ञोपवीतैरृषिभिर् देवताभिस् तथैव च

5.11

विभक्तेयं किमर्थं च श्रूयते मुनिसत्तम ।
वैष्णवीति पुराणज्ञैः किमर्थमिह चोच्यते

5.12

केषु स्थानेषु तीर्थेषु पूजनीया सरिद्वरा ।
तीर्थानि च पृथग्ब्रूहि यत्र संनिहितो हरः

5.13

यत्प्रमाणा च सा देवी या रुद्रेण विनिर्मिता ।
कीदृशानि च कर्माणि रुद्रेण कथितानि ते

5.14

कथं म्लेच्छसमाकीर्णो देशो ऽयं द्विजसत्तम ।
एतदाचक्ष्व मां ब्रह्मन्मार्कण्डेय महामते

5.15

श्रीमार्कण्डेय उवाच:
शृण्वन्तु ऋषयः सर्वे त्वं च तात युधिष्ठिर ।
पुराणं नर्मदायां तु कथितं च त्रिशूलिना

5.16

वायोः सकाशाच्च मया तेनापि च महेश्वरात् ।
अशक्यत्वान्मनुष्याणां संक्षिप्तम् ऋषिभिः पुरा

5.17

मायूरं प्रथमं तात कौर्म्यम् च तदनन्तरम् ।
पुरम् तथा कौशिकं च मात्स्यं द्विरदम् एव च

5.18

वाराहं यन्मया दृष्टं वैष्णवं चाष्टमं परम् ।
न्यग्रोधाख्यम् अतः चासीद् आकाङ्क्षं पुनरुत्तमम्

5.19

पद्मं च तामसं चैव संवर्तोद्वर्तमेव च ।
महाप्रलयमित्याहुः पुराणे वेदचिन्तकाः

5.20

एतत्संक्षेपतः सर्वं संक्षिप्तं तैर्महात्मभिः ।
विभक्तं च चतुर्भागैर् ब्रह्माद्यैश्च महर्षिभिः

5.21

तदहं सम्प्रवक्ष्यामि पुराणार्थविशारद ।
सप्त कल्पा महाघोरा यैर् इयं न मृता सरित्

5.22

आ जङ्गमं तमोभूतम् अप्रज्ञातमलक्षणम् ।
नष्टचन्द्रार्ककिरणम् आसीद् भूतविवर्जितम्

5.23

तमसो ऽतो महानाम्ना पुरुषः स जगद्गुरुः ।
चचार तस्मिन्नेकाकी व्यक्ताव्यक्तः सनातनः

5.24

स चौंकारमयो ऽतीतो गायत्रीमसृजद्द्विजः ।
स तया सार्द्धम् ईशानश्चिक्रीड पुरुषो विराट्

5.25

स्वदेहादसृजद् विश्वं पञ्चभूतात्मसंज्ञितम् ।
क्रीडन्समसृजद्विश्वं पञ्चभूतात्मसंज्ञितम्

5.26

क्रीडन् सृजद् विराट्संज्ञः सबीजं च हिरण्मयम् ।
तच्चाण्डम् अभवद् दिव्यं द्वादशादित्यसन्निभम्

5.27

तद्भित्त्वा पुरुषो जज्ञे चतुर्वक्त्रः पितामहः ।
सो ऽसृजद्विश्वम् एवं तु सदेवासुरमानुषम्

5.28

सतिर्यक्पशुपक्षीकं स्वेदाण्डजजरायुजम् ।
एतदण्डं पुराणेषु प्रथमं परिकीर्तितम्

5.29

पूर्वकल्पे नृपश्रेष्ठ क्रीडन्त्या परमेष्ठिना ।
उमया सह रुद्रस्य क्रीडतश्चार्णवीकृतः

5.30

हर्षाज्जज्ञे शुभा कन्या उमायाः स्वेदसंभवा ।
शर्वस्योरःस्थलाज्जज्ञे उमा कुचविमर्दनात्

5.31

स्वेदाद्विजज्ञे महती कन्या राजीवलोचना ।
द्वितीयः संभवो यस्या रुद्रदेहाद् युधिष्ठिर

5.32

सा परिभ्रमते लोकान् सदेवासुरमानवान् ।
त्रैलोक्योन्मादजननी रूपेण ऽप्रतिमा तदा

5.33

तां दृष्ट्वा देवदैत्येन्द्रा मोहिता लभते कथम् ।
मृगयन्ति स्म तां कन्याम् इतश्चेतश्च भारत

5.34

हावभावविलासैश्च मोहयत्यखिलं जगत् ।
भ्रमते दिव्यरूपा सा विद्युत्सौदामिनी यथा

5.35

मेघमध्ये स्थिता भाभिः सर्वयोषिदनुत्तमा ।
ततो रुद्रं सुराः सर्वे दैत्याश्च सह दानवैः

5.36

वरयन्ति स्म तां कन्यां कामेनाकुलिता भृशम् ।
ततो ऽब्रवीन्महादेवो देवदानवयोर्द्वयोः

5.37

बलेन तेजसा चैव ह्यधिको यो भविष्यति ।
स इमां प्राप्स्यते कन्यां नान्यथा वै सुरोत्तमाः

5.38

ततो देवासुराः सर्वे कन्यां वै समुपागमन् ।
अहमेनां ग्रहीष्यामि अहमेनामिति ब्रुवन्

5.39

पश्यतामेव सर्वेषां सा कन्यान्तरधीयत ।
पुनस्तां ददृशुः सर्वे योजनान्तरधिष्ठिताम्

5.40

जग्मुस्ते त्वरिताः सर्वे यत्र सा समदृश्यत ।
त्रिभिश्चतुर्भिश्च तथा योजनैर्दशभिः पुनः

5.41

धिष्ठितां समपश्यंस्ते सर्वे मातंगगामिनीम् ।
योजनानां शतैर्भूयः सहस्रैश्चाप्यधिष्ठिताम्

5.42

तथा शतसहस्रेण लघुत्वात् समदृश्यत ।
अग्रतः पृष्ठतश्चैव दिशासु विदिशासु च

5.43

तां पश्यन्ति वरारोहाम् एकधा बहुधा पुनः ।
दिव्यवर्षसहस्रं तु भ्रामितास्ते तया पुरा

5.44

न चावाप्ता तु सा कन्या महादेवाङ्गसंभवा ।
सहोमया ततो देवो जहासोच्चैः पुनःपुनः

5.45

गणास्तालकसंपातैर् नृत्यन्ति च मुदान्विताः ।
अकस्माद्दृश्यते कन्या शंकरस्य समीपगा

5.46

तां दृष्ट्वा विस्मयापन्ना देवा यान्ति पराङ्मुखाः ।
तस्याश् चक्रे ततो नाम स्वयमेव पिनाकधृक्

5.47

नर्म चैभ्यो ददे यस्मात् तत्कृतैश् चेष्टितैः पृथक् ।
भविष्यसि वरारोहे सरिच्छ्रेष्ठा तु नर्मदा

5.48

स्वरूपमास्थितो देवः प्राप हास्यं यतो भुवि ।
नर्मदा तेन चोक्तेयं सुशीतलजला शिवा

5.49

सप्तकल्पक्षये जाते यदुक्तं शंभुना पुरा ।
न मृता तेन राजेन्द्र नर्मदा ख्यातिमागता

5.50

ततस्तामददात्कन्यां शीलवतीं सुशोभनाम् ।
महार्णवाय देवेशः सर्वभूतपतिः प्रभुः

5.51

ततः सा ऋक्षशैलेन्द्रात् फेनपुञ्जाट्टहासिनी ।
विवेश नर्मदा देवी समुद्रं सरितां पतिम्

5.52

एवं ब्राह्मे पुरा कल्पे समुद्भूतेयमीश्वरात् ।
मात्स्ये कल्पे मया दृष्टा समाख्याता मया शृणु

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc