भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 4

4.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मार्कण्डेयधर्मराजसंवादे कल्पक्षये मार्कण्डेयकृतपोतार्धारोहणवृत्तान्तवर्णनंनाम तृतीयो ऽध्यायः ॥
र्क्व् अध्याय 4
श्रीमार्कण्डेय उवाच:
ततो ऽर्णवात्समुत्तीर्य त्रिकूटशिखरे स्थितम् ।
महाकनकवर्णाभे नानावर्णशिलाचिते

4.2

महाशृङ्गे समासीनं रुद्रकोटिसमन्वितम् ।
महादेवं महात्मानमीशानमजम् अव्ययम्

4.3

सर्वभूतमयं तात मनुना सह सुव्रत ।
भूयो ववन्दे चरणौ सर्वदेवनमस्कृतौ

4.4

तत्काले युगसाहस्रं सह रुद्रेण मानद ।
तस्मिन्नेकार्णवे घोरे स्थितो ऽहं कुरुनंदन

4.5

युधिष्ठिर उवाच:
एतच्छ्रुत्वा तु मे तात परं कौतूहलं हृदि ।
जातं तत्कथयस्वेति शृण्वतः सह बान्धवैः

4.6

का सा पद्मपलाशाक्षी तमोभूते महार्णवे ।
योगिवद्भ्रमते नित्यं रुद्रजां स्वां च याब्रवीत्

4.7

श्रीमार्कण्डेय उवाच:
एतमेव मया प्रश्नं पुरा पृष्टो मनुः स्वयम् ।
तदेव ते ऽद्य वक्ष्यामि अबलायाः समुद्भवम्

4.8

व्यतीतायां निशायां तु ब्रह्मणः परमेष्ठिनः ।
ततः प्रभाते विमले सृज्यमानेषु जन्तुषु

4.9

मनुं प्रणम्य शिरसा पृच्छाम्येतद् युधिष्ठिर ।
केयं पद्मपलाशाक्षी श्यामा चंद्रनिभानना

4.10

एकार्णवे भ्रमत्येका रुद्रजास्मीति वादिनी ।
सावित्री वेदमाता च ह्यथवा सा सरस्वती

4.11

मन्दाकिनी सरिच्छ्रेष्ठा लक्ष्मीर्वा किमथो उमा ।
कालरात्रिर्भवेत्साक्षात् प्रकृतिर्वा सुखोचिता

4.12

एतदाचक्ष्व भगवन्का सा ह्यमृतसंभवा ।
चरत्येकार्णवे घोरे प्रनष्टोरगराक्षसे

4.13

मनुरुवाच:
शृणु वत्स यथान्यायमस्या वक्ष्यामि संभवम् ।
यया रुद्रसमुद्भूता या चेयं वरवर्णिनी

4.14

पुरा शिवः शान्ततनुश्चचार विपुलं तपः ।
हितार्थं सर्वलोकानामुमया सह शंकरः

4.15

ऋक्षशैलं समारुह्य तपस्तेपे सुदारुणम् ।
अदृश्यः सर्वभूतानां सर्वभूतात्मको वशी

4.16

तपतस्तस्य देवस्य स्वेदः समभवत्किल ।
तं गिरिं प्लावयामास स स्वेदो रुद्रसंभवः

4.17

तस्माद् आसीत् समुद्भूता महापुण्या सरिद्वरा ।
या सा त्वयार्णवे दृष्टा पद्मपत्रायतेक्षणा

4.18

स्त्रीरूपं समवस्थाय रुद्रमाराधयत्पुरा ।
आद्ये कृतयुगे तस्मिन्समानामयुतं नृप

4.19

ततस्तुष्टो महादेव उमया सह शंकरः ।
ब्रूहि त्वं तु महाभागे यत्ते मनसि वर्तते

4.20

सरिदुवाच:
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ।
प्रसादात्तव देवेश अक्षयाहं भवे प्रभो

4.21

सरित्सु सागरेष्वेव पर्वतेषु क्षयिष्वपि ।
तव प्रसादाद्देवेश पुण्या क्षय्या भवे प्रभो

4.22

पापोपपातकैर्युक्ता महापातकिनो ऽपि ये ।
मुच्यन्ते सर्वपापेभ्यो भक्त्या स्नात्वा तु शंकर

4.23

उत्तरे जाह्नवीदेशे महापातकनाशिनी ।
भवामि दक्षिणे मार्गे यद्येवं सुरपूजिता

4.24

स्वर्गादागम्य गंगेति यथा ख्याता क्षितौ विभो ।
तथा दक्षिणगङ्गेति भवेयं त्रिदशेश्वर

4.25

पृथिव्यां सर्वतीर्थेषु स्नात्वा यल्लभते फलम् ।
तत्फलं लभते मर्त्यो भक्त्या स्नात्वा महेश्वर

4.26

ब्रह्महत्यादिकं पापम् यदास्ते संचितं क्वचित् ।
मासमात्रेण तद्देव क्षयं यात्ववगाहनात्

4.27

यत्फलं सर्ववेदेषु सर्वयज्ञेषु शंकर ।
अवगाहेन तत्सर्वं भवत्विति मतिर्मम

4.28

सर्वदानोपवासेषु सर्वतीर्थावगाहने ।
तत्फलं मम तोयेन जायतामिति शंकर

4.29

मम तीरे नरा ये तु अर्चयन्ति महेश्वरम् ।
ते गतास्तव लोकं स्युर् एतद् एव भवेच्छिव

4.30

मम कूले महेशान उमया सह दैवतैः ।
वस नित्यं जगन्नाथ एष एव वरो मम

4.31

सुकर्मा वा विकर्मा वा शान्तो दान्तो जितेन्द्रियः ।
मृतो जन्तुर्मम जले गच्छताद् अमरावतीम्

4.32

त्रिषु लोकेषु विख्याता महापातकनाशिनी ।
भवामि देवदेवेश प्रसन्नो यदि मन्यसे

4.33

एतांश्चान्यान्वरान्दिव्यान्प्रार्थितो नृपसत्तम ।
नर्मदया ततः प्राह प्रसन्नो वृषवाहनः

4.34

श्रीमहेश उवाच:
एवं भवतु कल्याणि यत्त्वयोक्तमनिन्दिते ।
नान्या वरार्हा लोकेषु मुक्त्वा त्वां कमलेक्षणे

4.35

यदैव मम देहात् त्वं समुद्भूता वरानने ।
तदैव सर्वपापानां मोचिनी त्वं न संशयः

4.36

कल्पक्षयकरे काले काले घोरे विशेषतः ।
उत्तरं कूलमाश्रित्य निवसन्ति च ये नराः

4.37

अपि कीटपतङ्गाश्च वृक्षगुल्मलतादयः ।
आ देहपतनाद्देवि ते ऽपि यास्यन्ति सद्गतिम्

4.38

दक्षिणं कूलमाश्रित्य ये द्विजा धर्मवत्सलाः ।
आ मृत्योर् निवसिष्यन्ति ते गताः पितृमन्दिरे

4.39

अहं हि तव वाक्येन कस्मिंश्चित् कारणान्तरे ।
त्वत्तीरे निवसिष्यामि सदैव ह्युमया समम्

4.40

एवं देवि महादेवि एवमेव न संशयः ।
ब्रह्मेन्द्रचन्द्रवरुणैः साध्यैश्च सह विष्णुना

4.41

उत्तरे देवि ते कूले वसिष्यन्ति ममाज्ञया ।
दक्षिणे पितृभिः सार्द्धं तथान्ये सुरसुन्दरि

4.42

वसिष्यन्ति मया सार्द्धमेष ते वर उत्तमः ।
गच्छ गच्छ महाभागे मर्त्यान्पापाद्विमोचय

4.43

सहिता ऋषिसंघैश्च तथा सिद्धसुरासुरैः ।
एवमुक्ता महादेव उमया सहितो विभुः

4.44

वन्द्यमानो ऽथ मनुना मया चादर्शनं गतः ।
तेन चैषा महापुण्या महापातकनाशिनी

4.45

कथिता पृच्छ्यते या ते मा ते भवतु विस्मयः ।
एषा गंगा महापुण्या त्रिषु लोकेषु विश्रुता

4.46

दशाभिः पञ्चभिः स्रोतैः प्लावयन्ती दिशो दश ।
शोणो महानदश्चैव नर्मदा सुरसा कृता

4.47

मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।
तमसा विदिशा चैव करभा यमुना तथा

4.48

चित्रोत्पला विपाशा च रञ्जना वालुवाहिनी ।
ऋक्षपादप्रसूतास्ताः सर्वा वै रुद्रसंभवाः

4.49

सर्वपापहराः पुण्याः सर्वमंगलदाः शिवाः ।
इत्येतैर्नामभिर्दिव्यैः स्तूयते वेदपारगैः

4.50

पुराणज्ञैर् महाभागैराज्यपैः सोमपैस्तथा ।
इत्येतत्सर्वमाख्यातं महाभाग्यं नरोत्तम

4.51

मनुनोक्तं पुरा मह्यम् अमृतायाः समुद्भवम् ।
पुण्यं पवित्रमतुलं रुद्रोद्गीतमिदं शुभम्

4.52

ये नराः कीर्तयिष्यन्ति भक्त्या शृण्वन्ति ये ऽपि च ।
प्रातरुत्थाय नामानि दश पञ्च च भारत

4.53

ते नराः सकलं पुण्यं लभिष्यन्त्यवगाहजम् ।
विमानेनार्कवर्णेन घण्टाशतनिनादिना

4.54

त्यक्त्वा मानुष्यकं भावं यास्यन्ति परमां गतिम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc