भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 6

6.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पञ्चमो ऽध्यायः ॥
र्क्व् अध्याय 6
मार्कण्डेय उवाच:
पुनर्युगान्ते सम्प्राप्ते तृतीये नृपसत्तम ।
दादशार्कवपुर्भूत्वा भगवान्नीललोहितः

6.2

सप्तद्वीपसमुद्रान्तां सशैलवनकाननाम् ।
निर्दग्धां तु महीं कृत्स्नां कालो भूत्वा महेश्वरः

6.3

ततो महाघनो भूत्वा प्लावयामास वारिणा ।
कृष्णं कृष्णवपुस् त्वेनां विद्युच्चन्द्रायुधाङ्किताम्

6.4

प्लावयित्वा जगत्सर्वं तस्मिन्नेकार्णवीकृते ।
सुष्वाप विमले तोये जगत्संक्षिप्य मायया

6.5

ततो ऽहं भ्रममास्तु तमोभूते महार्णवे ।
दिव्यं वर्षसहस्रं तु वायुभूते महेश्वरे

6.6

ओंकृत्वा देवदेवेशं येनेदं गहनीकृतम् ।
ध्यायमानस्ततो देवं राजेन्द्र विमले जले

6.7

तस्मिन्महार्णवे घोरे नष्टे स्थावरजङ्गमे ।
मयूरं स्वर्णपत्राढ्यम् अपश्यंसहसा जले ।
विचित्रचन्द्रकोपेतं नीलकंठं सुलोचनम्

6.8

ततो मयूरः स महार्णवान्ते विक्षोभयित्वा हि महास्वेण ।
चचार देवस्त्रिशिखी शिखण्डी त्रैलोक्यगोप्ता स महानुभावः

6.9

शिवश्च रौद्रेण मयूररूपिणा विक्षोभ्यमाणे सलिले ऽपि तस्मिन् ।
सह भ्रमन्तीं च महार्णवान्ते सरिन्महौघां सुमहान्ददर्श

6.10

स तां महादेवमयूररूपो दृष्ट्वा भ्रमन्तीं सहसोर्मिजालैः ।
का त्वं शुभे शाश्वतदेहभूता क्षयं न यातासि महाक्षयान्ते

6.11

देवासुरगणे नष्टे सरित्सरमहार्णवे ।
का त्वं भ्रमसि पद्माक्षि क्व गतासि च न क्षयम्

6.12

नर्मदोवाच:
तव प्रसादाद्देवेश मृत्युर्मम न विद्यते ।
सृज देव पुनर्विश्वं शर्वरी क्षयमागता

6.13

एवमुक्तो महादेवो व्यधुनोत्पक्षपञ्जरम् ।
तावत्पञ्जरमध्यान्ते तस्य पक्षाद्विनिःसृताः

6.14

तावन्तो देवदैत्येन्द्राः पक्षाभ्यां तस्य जज्ञिरे ।
तेषां मध्ये पुनः सा तु नर्मदा भ्रमते सरित्

6.15

ततश्चान्यो महाशैलो दृश्यते भरतर्षभ ।
त्रिभिः कूटैः सुविस्तीर्णैः शृङ्गवानिव गोवृषः

6.16

त्रिकूटस्तु इति ख्यातः सर्वरत्नैर्विभूषितः ।
ततस्तस्मात्त्रिकूटाच्च प्लावयन्ती महीं ययौ

6.17

त्रिकूटी तेन विख्याता पित्ःणां त्रायणी परा ।
द्वितीयाच्च ततो गङ्गा विस्तीर्णा धरणीतले

6.18

तृतीयं च ततः शृङ्गं सप्तधा खण्डशो गतम् ।
जम्बूद्वीपे तु संजाताः सप्त ते कुलपर्वताः

6.19

चन्द्रनक्षत्रसहिता ग्रहग्रामनदीनदाः ।
अण्डजं स्वेदजं जातमुद्भिज्जं च जरायुजम्

6.20

एवं जगदिदं सर्वं मयूरादभवत्पुरा ।
समस्तं नरशार्दूल महादेवसमुद्भवम्

6.21

ततो नदीः समुद्रांश्च संविभज्य पृथक्पृथक् ।
नर्मदामाह देवेशो गच्छ त्वं दक्षिणां दिशम्

6.22

एवं सा दक्षिणा गंगा महापातकनाशिनी ।
उत्तरे जाह्नवी देशे पुण्या त्वं दक्षिणे शुभा

6.23

यथा गंगा महापुण्या मम मस्तकसंभवा ।
तद्विशिष्टा महाभागे त्वं चैवेति न संशयः

6.24

त्वया सह भविष्यामि एकेनांशेन सुव्रते ।
महापातकयुक्तानाम् औषधं त्वं भविष्यसि

6.25

एवमुक्ता तु देवेन महापातकनाशिनी ।
दक्षिणं दिग्विभागं तु सा जगामाशु विक्रमा

6.26

ऋक्षशैलेन्द्रमासाद्य चन्द्रमौलेर् अनुग्रहात् ।
वार्यौघैः प्रस्थिता यस्मान्महादेवप्रणोदिता

6.27

महता चापि वेगेन यस्माद् एषा समुच्छ्रिता ।
महती तेन सा प्रोक्ता महादेवान्महीपते

6.28

तपतस्तस्य देवस्य शूलाग्राद्बिन्दवो ऽपतन् ।
तेनैषा शोणसंज्ञा तु दश सप्त च ताः स्मृताः

6.29

सर्वेषां नर्मदा पुण्या रुद्रदेहाद्विनिःसृता ।
सर्वाभ्यश्च सरिद्भ्यश् च वरदानान्महात्मनः

6.30

शंकरानुप्रहाद् देवी महापातकनाशिनी ।
यस्मान् महार्णवे घोरे दृश्यते महती च सा

6.31

सुव्यक्ताङ्गी महाकाया महती तेन सा स्मृता ।
तस्माद् विक्षोभ्यमाणा हि दिग्गजैरम्बुदोपमैः

6.32

कलुषत्वं नयत्येव रसेन सुरसा तथा ।
कृपां करोति सा यस्माल्लोकानामभयप्रदा

6.33

संसारार्णवमग्नानां तेन चैषा कृपा स्मृता ।
पुरा कृतयुगे पुण्ये दिव्यमन्दारभूषिता

6.34

कल्पवृक्षसमाकीर्णा रोहीतकसमाकुला ।
वहत्येषा च मन्देन तेन मन्दाकिनी स्मृता

6.35

भित्त्वा महार्णवं क्षिप्रं यस्माल्लोकमिहागता ।
पूज्या सुरैश्च सिद्धैश्च तस्मादेषा महार्णवा

6.36

विचित्रोत्पलसंघातैर् ऋक्षद्विपसमाकुला

6.37

भित्त्वा शैलं च विपुलं प्रयात्येवं महार्णवम् ।
भ्रामयन्ती दिशः सर्वा रवेण महता पुरा

6.38

प्लावयन्ती विराजन्ती तेन रेवा इति स्मृता ।
भार्यापुत्रसुदुःखाढ्यान्नराञ्छापैः समावृतान्

6.39

विपापान्कुरुते यस्माद्विपापा तेन सा स्मृता ।
विण्मूत्रनिचयां घोरां पांशुशोणितकर्दमाम्

6.40

पाशैर्नित्यं तु सम्बाधां यस्मान्मोचयते भृशम् ।
विपाशेति च सा प्रोक्ता संसारार्णवतारिणी

6.41

नर्मदा विमलाम्भा च विमलेन्दुशुभानना ।
तमोभूते महाघोरे यस्मादेषा महाप्रभा

6.42

विमला तेन सा प्रोक्ता विद्वद्भिर्नृपसत्तम ।
करैर् इन्दुकरप्रख्यैः सूर्यरश्मिसमप्रभा

6.43

क्षरन्ती मोदते विश्वं करभा तेन चोच्यते ।
यस्माद् रञ्जयते लोकान्दर्शनादेव भारत

6.44

रञ्जनाद् रञ्जना प्रोक्ता धात्वर्थे राजसत्तम ।
तृणवीरुधगुल्माद्यास् तिर्यञ्चः पक्षिणस्तथा ।
तानुद्भूतान्नयेत्स्वर्गं तेनोक्ता वायुवाहिनी

6.45

एवं यो वेत्ति नामानि निर्गमं च विशेषतः ।
स याति पापविर्मुक्तो रुद्रलोकं न संशयः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc