रेवाखाण्ड (संशोधित पाठ) · अध्याय 48
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गीर्वाणस्वर्गमनवर्णनं नाम सप्तचत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 48
उत्तानपाद उवाच:
कस्मिन्स्थाने ऽवसद् देव सो ऽन्धको दैत्यपुंगवः ।
सर्वान्देवांश्च निर्जित्य कस्मिन्स्थाने समास्थितः
श्रीमहेश उवाच:
प्रविष्टो दानवो यत्र कथयामि नराधिप ।
पाताललोकमाश्रित्य कन्या विध्वंसते तु सः
तत्र स्थितं तं विज्ञाय चापमादाय केशवः ।
व्यसृजद्बाणमाग्नेयं दह्यतामिति चिन्तयन्
दह्यमानो ऽग्निना सो ऽपि वारुणास्त्रं स संदधे ।
वारुणास्त्रेण महता आग्नेयं शमितं तदा
ततो ऽसौ चिन्तयामास केन बाणो विसर्जितः ।
कस्यैषा पौरुषी शक्तिः को यास्यति यमालयम्
ततो ऽन्धको मृधे क्रुद्धो बाणमार्गेण निर्गतः ।
स दृष्ट्वा बाणमार्गेण चापहस्तं जनार्दनम्
अन्धक उवाच:
न शर्म लप्स्यसे ह्यद्य मया दृष्ट्याभिवीक्षितः ।
न शक्नोषि तथा गन्तुं नागः शार्दूलदर्शनात्
आगच्छति यथा भक्ष्यं मार्जारस्य च मूषिकः ।
न शक्नोषि तथा यातुं संस्थितस् त्वं ममाग्रतः
अहं त्वां प्रेषयिष्यामि यममार्गे सुदारुणे ।
अहमन्वेषयिष्यामि किल यास्यामि ते गृहम्
उपनीतो ऽसि कालेन सङ्ग्रामे मम केशव ।
ये त्वया निर्जिताः पूर्वं दानवा अप्यनेकशः
न भवन्ति पुमांसस्ते स्त्रियस्ताश् चैव केशव ।
परं न शस्त्रसङ्ग्रामं करिष्यामि त्वया सह
वदतो दानवेन्द्रस्य न चुकोप स केशवः ।
अयुध्यमानं तं दृष्ट्वा चिन्तयामास दानवः
द्वन्द्वयुद्धं करिष्यामि निश्चित्य युयुधे नृप ।
स कृष्णेन पदाक्षिप्तः पतितः पृथिवीतले
मुहूर्तात्स समाश्वस्य उत्थायेदं व्यचिन्तयत् ।
अशक्तो द्वन्द्वयुद्धाय ततः साम प्रयुक्तवान् ।
पाणिभ्यां सम्पुटं कृत्वा साष्टाङ्गं प्रणतः शुचिः
अन्धक उवाच:
जय कृष्णाय हरये विष्णवे जिष्णवे नमः ।
हृषीकेश जगद्धात्रे अच्युताय महात्मने
नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे
गोविन्दाय नमो नित्यं नमो जलधिशायिने ।
नमः करालवक्त्राय नरसिंहाय नादिने
शार्ङ्गिणे सितवर्णाय शङ्खचक्रगदाभृते ।
नमो वामनरूपाय यज्ञरूपाय ते नमः
नमो वराहरूपाय क्रान्तलोकत्रयाय च ।
व्याप्ताशेषदिगन्ताय केशवाय नमोनमः
वासुदेव नमस्तुभ्यं नमः कैटभनाशिने ।
लक्ष्म्यालय सुरश्रेष्ठ नमस्ते सुरनायक
विष्णोर्देवाधिदेवस्य प्रमाणं ये ऽपि कुर्वते ।
प्रजापतेर्जगद्धातुस् तेषाम् अपि नमाम्यहम्
समस्तभूतदेवस्य वासुदेवस्य धीमतः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम्
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम्
गुणानां हि निधानाय नमस्ते ऽस्तु पुनःपुनः ।
कारुण्याम्बुनिधे देव सर्वभक्तिप्रियाय च
श्रीभगवान् उवाच:
तुष्टस्ते दानवेन्द्राहं वरं वृणु यथेप्सितम् ।
ददामि ते वरं नूनमपि त्रैलोक्यदुर्लभम्
अन्धक उवाच:
यदि तुष्टो ऽसि मे देव वरं दास्यसि चेप्सितम् ।
तदा ददस्व मे देव युद्धं परमशोभनम् ।
अवद्धस्तपूतो येनाहं लोकान्गन्तास्मि शोभनान्
श्रीभगवानुवाच:
कथं ददामि ते युद्धं तोषितो ऽहं त्वया पुनः ।
न त्वां तु प्रभवेत्कोपः कथं युध्यामि ते ऽन्धक
यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः ।
ततो गच्छस्व युद्धाय देवं प्रति महेश्वरम्
अन्धक उवाच:
न तत्र सिध्यते कार्यं देवं प्रति महेश्वरम्
श्रीभगवान् उवाच:
पुत्र त्वं शिखरं गत्वा धूनयस्व बलेन च
विधूते तत्र देवेशः कोपं कर्ता सुदारुणम् ।
कोपितः शङ्करो रौद्रं युद्धं दास्यति दानव
विष्णुवाक्यादसौ पापो गतो यत्र महेश्वरः ।
कैलासशिखरं प्राप्य धुनोति स्म मुहुर्मुहुः
धूनिते तत्र शिखरे कम्पितं भुवनत्रयम् ।
निपेतुः शिखराग्राणि कम्पमानान्यनेकशः
चत्वारः सागराः क्षिप्रमेकीभूता महीपते ।
निपेतुरुल्कापाताश्च पादपा अप्यनेकशः
उमया सहितो देवो विस्मयं परमं गतः ।
गाढमालिङ्ग्य गिरिजा देवं वचनम् अब्रवीत्
किमर्थं कम्पते शैलः किमर्थं कम्पते धरा ।
किमर्थं कम्पते नागो मर्त्यः पातालमेव च ।
किं वा युगक्षयो देव तन्ममाख्यातुम् अर्हसि
ईश्वर उवाच:
कस्यैषा दुर्मतिर्जाता क्षिप्तः सर्पमुखे करः ।
ललाटे च कृतं वर्म स यास्यति यमालयम्
कैलासमाश्रितो येन सुप्तो ऽहं येन बोधितः ।
तं वधिष्ये न सन्देहः सम्मुखो वा भवेद् यदि
चिन्तयामास देवेशो ह्यन्धको ऽयं न संशयः ।
उपायं चिन्तयामास येनासौ वध्यते क्षणात्
आगताश्च सुराः सर्वे ब्रह्माद्या वसुभिः सह ।
रथं देवमयं कृत्वा सर्वलक्षणसंयुतम्
केचिद्देवाः स्थिताश्चक्रे केचित् तुण्डाग्रपार्श्वयोः ।
केचिन् नाभ्यां स्थिता देवाः केचिद्धुर्येषु संस्थिताः
धुरीषु निश्चलाः केचित्केचिद्यूपेषु संस्थिताः ।
केचित्स्यन्दनसंस्तम्भाः केचित्स्यन्दनवेष्टकाः
आमलसारके ऽन्ये ऽपि अन्ये ऽपि कलशे स्थिताः ।
रिपोर्भयंकरं दिव्यं ध्वजमालादिशोभितम्
रथं देवमयं कृत्वा तमारूढो जगद्गुरुः ।
निर्ययौ दानवो यत्र कोपाविष्टो महेश्वरः
तिष्ठ तिष्ठेत्युवाचाथ क्व प्रयास्यसि दुर्मते ।
शरासनं करे गृह्य शरांश्चिक्षेप दानवे
दानवे ऽधिष्ठिते युद्धे शरैश्चिछेद सायकान् ।
शरासनेण तत्रैव अन्धकश्छादितस् तदा
न तत्र दृश्यते सूर्यो नाकाशं न च चन्द्रमाः ।
आग्नेयमस्त्रं व्यसृजद्दानवो ऽपि शिवं प्रति
दह्यमानाः शराङ्गारैस्तत्रसुः सर्वदेवताः ।
रक्ष रक्ष महादेव दह्यमानांस्तु दानवात्
ततो देवाधिदेवो ऽसौ वारुणास्त्रमयो ऽजयत् ।
वारुणास्त्रेण निमिषादाग्नेयं नाशितं तदा
दानवेन तदा मुक्तं वायव्यास्त्रं रणाजिरे ।
वारुणं च गतं तात वायव्यास्त्रविनाशितम्
देवो व्यसर्जयत्सार्पं क्रोधाविष्टेन चेतसा ।
मारुतं नाशितं बाणैः सर्पैस् तत्र न संशयः
दानवेन ततो मुक्तं गरुडास्त्रं च लीलया ।
गारुडास्त्रं च तद् दृष्ट्वा सार्पं नैव व्यदृश्यत
ततो देवाधिदेवेन नारसिंहं विसर्जितम् ।
नारसिंहास्त्रबाणेन गारुडास्त्रं प्रशामितम्
अस्त्रमस्त्रेण शम्येत न बाध्येत परस्परम् ।
महद् युद्धम् अभूत् तातसुरासुरभयंकरम्
चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः ।
वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः
एवं न शक्यते हन्तुं दानवो विविधायुधैः ।
तदा ज्वालाकरालाश्च खड्गनाराचतोमराः
वृषाङ्केन विमुक्तास्तु समरे दानवं प्रति ।
न संस्पृशन्ति शस्त्राणि गात्रं गौडवधूरिव
आयुधानि ततस्त्यक्त्वा बाहुयुद्धम् उपस्थितौ ।
करं करेण संगृह्य प्रहरन्तौ स्वमुष्टिभिः ।
रणप्रयोगैर्युध्यन्तौ युयुधाते शिवान्धकौ
श्रीमार्कण्डेय उवाच:
अन्धकं प्रति देवेशश्चिन्तयामास निग्रहम् ।
हनिष्यामि न सन्देहो दुष्टात्मानं न संशयः
स शिवेन यदा क्षिप्तः पतितः पृथिवीतले ।
ऊर्ध्वबाहुरधोवक्त्रो दानवो नृपसत्तम
क्रोधाविष्टेन देवेशः सङ्ग्रामे देवशत्रुणा ।
कक्षयोः कुहरे क्षिप्त्वा बन्धेनाक्रम्य पीडितः
निस्पन्दश्चाभवद् देवो मूर्च्छायुक्तो महेश्वरः ।
मूर्च्छापन्नं तु तं ज्ञात्वा चिन्तयामास दानवः
हाहा कष्टं कृतं मे ऽद्य दुष्कृतं पापकर्मणा ।
किं करोमि कथं कर्म कस्मिन्स्थाने तु मोचये
गृहीत्वा देवमुत्सङ्गे गतः कैलासपर्वतम् ।
शय्यायां शङ्करं न्यस्य निर्ययौ दैत्यराट् ततः
शय्यायां पतितो देवः प्रपेदे वेदनां ततः ।
तावद्ददर्श चात्मानं स्वकीयभवनस्थितम्
पराभवः कृतो मद्यं कथं तेन दुरात्मना ।
क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति
आयसीं लगुडीं गृह्य प्रभुर् भारसहस्रजाम् ।
दानवं च ततो दृष्ट्वा प्राक्षिपत्तस्य मूर्धनि
खड्गेन ताडयामास दानवः प्रहसन्रणे ।
देवेनाथस्मृतं चास्त्रं कौच्छेराख्यं महाहवे
दीप्यमानं समुत्सृज्य हृदये ताडितः क्षणात् ।
ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन्
पतितो ऽधोमुखो भूत्वा ततः शूलेन भेदितः ।
पुनश्च देवदेवेन शूलेन द्विदलीकृतः
शूलाग्रे ऽसौ स्थितः पापो भ्रान्तवांश् चक्रवत् तदा ।
ये ये भूम्यां पतन्ति स्म तत्कायाद् रक्तबिन्दवः
ते ते सर्वे समुत्तस्थुर् दानवाः शास्त्रपाणयः ।
व्याकुलस्तु ततो देवो दानवेन तरस्विना
देवेनाथ स्मृता दुर्गा चामुण्डा भीषणानना ।
आयाता भीषणाकारा नानायुधविराजिता
महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका ।
आदेशो दीयतां देव को यास्यति यमालयम्
ईश्वर उवाच:
पिबास्य रुधिरं भद्रे यथेष्टं दानवस्य च ।
निपतद्रुधिरं भूमौ दुर्गे गृह्णीष्व माचिरम्
निहन्मि दानवं यावत्साहाय्यं कुरु सुन्दरि ।
एवमुक्ता तु सा दुर्गा पपौ च रुधिरं ततः
निहता दानवाः सर्वे देवेशेन सहस्रशः ।
अन्धको ऽपि च तान् दृष्ट्वा दानवानवनिं गतान् ।
ततो वाग्भिः प्रतुष्टाव देवदेवं महेश्वरम्
अन्धक उवाच:
जयस्व देवदेवेश उमार्धार्धाशरीरधृक् ।
नमस्ते देवदेवेश सर्वाय त्रिगुणात्मने
वृषभासनमारूढ शशाङ्ककृतशेखर ।
जय खट्वाङ्गहस्ताय गङ्गाधर नमो ऽस्तु ते
नमो डमरुहस्ताय नमः कपालमालिने ।
स्मरदेहविनाशाय महेशाय नमो ऽस्तु ते
पूष्णो दन्तनिपाताय गणनाथाय ते नमः ।
जय स्वरूपदेहाय अरूपबहुरूपिणे
उत्तमाङ्गविनाशाय विरिञ्चेरपि शङ्कर ।
श्मशानवासिने नित्यं नित्यं भैरवरूपिणे
त्वं सर्वगो ऽसि त्वं कर्ता त्वं हर्ता नान्य एव च ।
त्वं भूमिस्त्वं दिशश्चैव त्वं गुरुर्भार्गवस्तथा
सौरिस्त्वं देवदेवेश भूमिपुत्रस् तथैव च ।
ऋक्षग्रहादिकं सर्वं यद्दृश्यं तत्त्वमेव च
एवं स्तुतिं तदा कृत्वा देवं प्रति स दानवः ।
संहताभ्यां तु पाणिभ्यां प्रणनाम महेश्वरम्
ईश्वर उवाच:
साधु साधु महासत्त्व वरं याचस्व दानव ।
दाताहं याचकस्त्वं हि ददामीह यथेप्सितम्
अन्धक उवाच:
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तदात्मसदृशो ऽहं ते कर्तव्यो नापरो वरः
भस्मी जटी त्रिनेत्री च त्रिशूली च चतुर्भुजः ।
व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः
एतदिच्छाम्यहं सर्वं यदि तुष्टो महेश्वर
ईश्वर उवाच:
ददामि ते वरं ह्यद्य यस्त्वया याचितो ऽनघ ।
गणेषु मे स्थितः पुत्र भृङ्गीशस्त्वं भविष्यसि
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0