रेवाखाण्ड (संशोधित पाठ) · अध्याय 47
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये शचीहरणवर्णनं नाम षट्चत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 47
श्रीमार्कण्डेय उवाच:
गीर्वाणाश्च ततः सर्वे ब्रह्माणं शरणं गताः ।
गजैर् गिरिवराकारैर् हयैश्चैव गजोपमैः
स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ।
कच्छपैर् महिषैश्चान्यैर् मकरैश्च तथापरे
ब्रह्मलोकमनुप्राप्ता देवाः शक्रपुरोगमाः ।
दृष्ट्वा पद्मोद्भवं देवं साष्टाङ्गं प्रणताः सुराः
देवा ऊचुः ।
जय देव जगद्वन्द्य जय संसृतिकारक ।
पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः
सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् ।
मेघगम्भीरया वाचा देवराजमुवाच ह
किमत्रागमनं देवाः सर्वेषां वै विवर्णता ।
केनापमानिताः सर्वे शीघ्रं मे कथ्यतां स्वयम्
देवा ऊचुः ।
अन्धकाख्यो महादैत्यो बलवान् पद्मसम्भव ।
तेन देवगणाः सर्वे धनरत्नैर् वियोजिताः
हत्वा देवगणांस् तावद् असिचक्रपरद्द्विश्वधैः ।
गृहीत्वा शक्रभार्यां स दानवो ऽपि गतो बलात्
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
चिन्तयामास राजेन्द्र वधार्थं दानवस्य ह
अवध्यो दानवः पापः सर्वेषां वो दिवौकसाम् ।
स त्राता सर्वजगतां नान्यो विद्येत कुत्रचित्
एवमुक्ताः सुराः सर्वे ब्रह्मणा तदनन्तरम् ।
ब्रह्माणं ते पुरस्कृत्य गता यत्र स केशवः ।
तुष्टुवुर्विविधैः स्तोत्रैर् ब्रह्माद्याश् चक्रपाणिनम्
देवा ऊचुः ।
जय त्वं देवदेवेश लक्ष्म्या वक्षःस्थलाश्रितः ।
असुरक्षय देवेश वयं ते शरणं गताः
स्तूयमानः सुरैः सर्वैर्ब्रह्माद्यैश्च जनार्दनः ।
सम्प्रहृष्टमना भूत्वा सुरसङ्घमुवाच ह
श्रीवासुदेव उवाच:
स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।
किं कार्यं प्रोच्यतां क्षिप्रं कस्य रुष्टा दिवौकसः
किं दुःखं कश्च संतापः कुतो वा भयम् आगतम् ।
कथयन्तु महाभागाः कारणं यन्मनोगतम्
पराभवः कृतो येन सो ऽद्य यातु यमालयम् ।
एवमुक्तास्तु कृष्णेन कथयामासुरस्य तत्
दर्शयन्तः स्वकान्देहान् लज्जमाना ह्यधोमुखाः ।
हृतराज्या ह्यन्धकेन कृता निस्तेजसः प्रभो
पितेव पुत्रं परिरक्ष देव जहीन्द्रशत्रुं सह पुत्रपौत्रैः ।
तथेति चोक्तः कमलासनेन सुरासुरैर् वन्दितपादपद्मः
शङ्खं चक्रं गदां चापं संगृह्य परमेश्वरः ।
उत्थितो भोगपर्यङ्काद् देवानां पुरतस्तदा
श्रीवासुदेव उवाच:
पाताले यदि वा मर्त्ये नाके वा यदि तिष्ठति ।
तं हनिष्याम्यहं पापं येन संतापिताः सुराः
स्वं स्थानं यान्तु गीर्वाणाः संतुष्टा भावितौजसः ।
विष्णोस्तद्वचनं श्रुत्वा ब्रह्माद्यास्ते सवासवाः
स्वयानैस्तु हरिं नत्वा हृदि तुष्टा दिवं ययुः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0