भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 46

46.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अन्धकवरप्रदानवर्णनं नाम पञ्चचत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 46
श्रीमार्कण्डेय उवाच:
स दानवो वरं लब्ध्वा जगाम स्वपुरं प्रति ।
ददर्श स्वपुरं राजञ्छोभितं चित्रचत्वरैः

46.2

उद्यानैश्चैव विविधैः कदलीखण्डमण्डितैः ।
पनसैर्बकुलैश्चैवाम्रातैराम्रैश्च चम्पकैः

46.3

अशोकैर्नालिकेरैश्च मातुलिङ्गैः सदाडिमैः ।
नानावृक्षैश्च शोभाढ्यं तडागैरुपशोभितम्

46.4

देवतायतनैर् दिव्यैर् ध्वजमालासुशोभितैः ।
वेदाध्ययननिर्घोषैर् मङ्गलाद्यैर् विनादितम्

46.5

प्राविशद्भवने दिव्ये काञ्चने रुक्ममालिनि ।
अपश्यत्स सुतान् भार्याम् अमात्यान् दासभृत्यकान्

46.6

ततो जयप्रदान् सर्वान् इतश्चेतश्च धावतः ।
हृच्छोभां च प्रकुर्वाणान् वै जयन्तीभिरुच्चकैः

46.7

केचित् तोरणम् आबध्य केचित् पुष्पाण्यवाकिरन् ।
मातुलिङ्गकराश्चान्ये धावन्ति ह्यन्धकं प्रति

46.8

पुरे जनाश्च दृश्यन्ते भाजनैरन्नपूरितैः ।
पूर्णहस्ताः प्रदृश्यन्ते तत्रैव बहवो जनाः

46.9

साक्षतैर् भाजनैस् तत्र शतसाहस्रयोषितः ।
मन्त्रान् पठन्ति विप्राश्च मङ्गलान्यपि योषितः

46.10

अमात्याश्चैव भृत्याश्च गजांश्चाढौकयन्ति च ।
वर्धापयन्ति ते सर्वे ये केचित् पुरवासिनः

46.11

हृष्टस्तुष्टो ऽवसत्तत्र सचिवैः सह सो ऽन्धकः ।
ददर्श स जगत्सर्वं तुरङ्गांश्च पदातिकान्

46.12

तथैव विविधान् कोशांस् तत्र काञ्चनपूरितान् ।
महिषीर्गा वृषांश्चैवापश्यच्छत्राण्यनेकधा

46.13

स एवमन्धकस् तत्र कियन्तं कालमावसत् ।
हृष्टस्तुष्टो वसन् मर्त्ये स सुरैर् नाभ्यभूयत

46.14

वरं लब्धं तु तं ज्ञात्वा शङ्किताः स्वर्गवासिनः ।
एकीभूताश्च ते सर्वे वासवं शरणं गताः

46.15

शक्र उवाच:
कथमागमनं वो ऽत्र सर्वेषाम् अपि नाकिनाम् ।
कस्माद्वो भयमुत्पन्नमागताः शरणं कथम्

46.16

ततस्ते ह्यमराः सर्वे शक्रम् एतद् वचो ऽब्रुवन्

46.17

देवा ऊचुः ।
सुरनाथान्धको नाम दैत्यः शम्भुवरोर्जितः ।
अजेयः सर्वदेवानां किं नु कार्यमतः परम्

46.18

तत्त्वं चिन्तय देवेश क उपायो विधीयताम् ।
इत्थं वदन्ति ते देवाः शक्राग्रे मन्त्रणोद्यताः

46.19

मन्त्रयन्ति च यावद् वै तावच्चारमुखेरितम् ।
ज्ञात्वा तत्र स देवौघं दानवो निर्गतो गृहात्

46.20

एकाकी स्यन्दनारूढ आयुर्धैबहुभिर् वृतः ।
दुर्गमं मेरुपृष्ठं स लीलयैव गतो नृप

46.21

स्वर्णप्राकारसंयुक्तं शोभितं विविधाश्रमैः ।
दुर्गमं शत्रुवर्गस्य तदा पार्थिवसत्तम

46.22

प्रविवेशासुरस्तत्र लीलया स्वगृहे यथा ।
वृत्रहा भयमापन्नः स्वकीयं चासनं ददौ

46.23

उपविष्टो ऽन्धकस्तत्र शक्रस्यैवासने शुभे ।
आस्थानं कलयामास सर्वतस्त्रिदशावृतम्

46.24

शक्र उवाच:
किं तवागमनं चात्र किं कार्यं कथयस्व मे ।
यदस्मदीयं वित्तं हि तत्ते दास्यामि दानव

46.25

अन्धक उवाच:
नाहं वै कामये कोशं न गजांश्च सुरेश्वर ।
स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूषितम्

46.26

ऐरावतं महानागं तं चैवोच्चैःश्रवोहयम् ।
उर्वश्यादीनि रत्नानि मम दर्शय गोपते

46.27

पारिजातकपुष्पाणि वृक्षजातीननेकशः ।
वादित्राणि च सर्वाणि दर्शयस्व शचीपते

46.28

तस्य तद्वचनं श्रुत्वा शक्रश् चिन्तितवान् इदम् ।
यो ऽमुं निहन्ति पाप्मानं न तं पश्यामि कर्हिचित्

46.29

नास्ति रक्षाप्रदः कश्चित्स्वर्गलोकस्य दुःखिनः ।
भयत्रस्तो ददावन्यद्वादित्राद्यप्सरोगणैः

46.30

रङ्गभूमावुपाविश्य कारयामास ताण्डवम् ।
उपविष्टाः सुराः सर्वे यममारुतकिन्नराः

46.31

उर्वश्याद्या अप्सरसो गीतवादित्रयोगतः ।
ननृतुः पुरतस्तस्य सर्वा एकैकशो नृप

46.32

न व्यश्राम्यत तच्चित्तं दृष्ट्वा चाप्सरसस्तदा ।
शचीं प्रति मनस्तस्य सकाममभवन्नृप

46.33

गृहीत्वा शक्रभार्यां स प्रस्थितः स्वपुरं प्रति ।
ततः प्रववृते युद्धमन्धकस्य सुरैः सह

46.34

तेन देवगणाः सर्वे ध्वस्ताः पार्थिवसत्तम ।
संग्रामे विविधैः शस्त्रैश् चक्रवज्रादिभिर्घनैः

46.35

संतापिताः सुराः सर्वे क्षयं नीता ह्यनेकशः ।
सर्वे ऽपि मरुतस्तेन भग्नाः संग्राममूर्धनि

46.36

यथा सिंहोगजान् सर्वान् विचित्य विचरेद् वनम् ।
तद्वद् एकेन ते देवा जिताः सर्वे पराङ्मुखाः

46.37

बालो ऽधिपो यथा ग्रामे स्वेच्छया पीडयेज्जनान् ।
स्वैरमाक्रम्य गृह्णाति कोशवासांसि चासकृत्

46.38

गतं न पश्यत्य् आत्मानं प्रजासंतापनेन च ।
गृहीत्वा शक्रभार्यां स गतो वै दानवोत्तमः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc