रेवाखाण्ड (संशोधित पाठ) · अध्याय 45
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदप्रशंसावर्णनं नाम चतुश्चत्वारिंशो ऽध्यायः॥
र्क्व् अध्याय 45
श्रीमार्कण्डेय उवाच:
एष एव पुरा प्रश्नः परिपृष्टो महेश्वरम् ।
राज्ञा चोत्तानपादेन ऋषिदेवसमागमे
उत्तानपाद उवाच:
इदं तीर्थं महापुण्यं सर्वदेवमयं परम् ।
गुह्याद्गुह्यतरं स्थानं न दृष्टं न श्रुतं हर
शूलभेदं कथं जातं केनैवोत्पादितं पुरा ।
माहात्म्यं तस्य तीर्थस्य विस्तराच्छंस मे प्रभो
ईश्वर उवाच:
आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।
मर्त्ये न तादृशः कश्चिद् विक्रमेण बलेन वा
सूनुर् ब्रह्मसुतस्यायम् अन्धको नाम दुर्मदः ।
निजस्थाने वसन् पापः कुर्वन् राज्यम् अकण्टकम्
हृष्टपुष्टो वसन् मर्त्ये स सुरैर्नाभिभूयते ।
भवनं तस्य पापस्य वह्नेरुपवनं यथा
एतस्मिन्न् अन्धकः काले चिन्तयामास भारत ।
तोषयामि महादेवं येन सानुग्रहो भवेत्
प्रार्थयामि वरं दिव्यं यो मे मनसि वर्तते ।
परं स निश्चयं कृत्वा सो ऽन्धको निर्गतो गृहात्
रेवातटं समासाद्य दानवस्तपसि स्थितः ।
उग्रं तपश्चचारासौ दारुणं लोमहर्षणम्
दिव्यं वर्षसहस्रं स निराहारो ऽभवत् ततः ।
द्वितीयं तु सहस्रं स न्यवसद्वारिभोजनः
तृतीयं तु सहस्रं स धूमपानरतो ऽभवत् ।
चतुर्थं वर्षसाहस्रं योगाभ्यासेन संस्थितः
कोपीह नेदृश चक्रे तपः परमदारुणम् ।
अस्थिचर्मावशेषो ऽसौ यावत्तिष्ठति भारत
तस्य मूर्ध्नि ततो राजन् धूमवार्त्तिर् विनिःसृता ।
देवलोकमतीत्यासौ कैलासं व्याप्य संस्थिता
तावद्देवसमीपस्था उमा वचनम् अब्रवीत् ।
को ऽस्त्ययं मानुषे लोके तपसोग्रेण संस्थितः
चतुर्वर्षसहस्राणि व्यतीयुः परमेश्वर ।
न केनापीदृशं तप्तं तपो दृष्टं श्रुतं तथा
अवज्ञां कुरुषे देव किमत्र नियमान्विते ।
सर्वस्य दत्से शीघ्रं त्वमल्पेन तपसा विभो
नाक्षक्रीडां करिष्ये ऽद्य त्वया सह महेश्वर ।
यावन्नोत्थाप्यते ह्येष दानवो भक्तवत्सल
ईश्वर उवाच:
साधु साधु महादेवि सर्वलक्षणलक्षिते ।
अहं तं न विजानामि क्लिश्यन्तं दानवेश्वरम्
योगाभ्यासे स्थितो भद्रे ध्यायंस्तत्परमं पदम् ।
तत्रागच्छ मया सार्द्धं यत्र तप्यत्यसौ तपः
उमया सहितो देवो गतस्तत्र महेश्वरः ।
अस्थिचर्मावशेषस्तु दृष्टो देवेन शम्भुना
प्रत्युवाच प्रसन्नो ऽसौ देवदेवो महेश्वरः ।
भोभोः कष्टं कृतं भीमं दारुणं लोमहर्षणम्
ईदृशं च तपो घोरं कस्माद्वत्स त्वया कृतम् ।
वरं दास्याम्यहं वत्स यस्ते मनसि वर्तते
अन्धक उवाच:
यदि तुष्टो ऽसि मे देव वरदो यदि शङ्कर ।
सुरान् सर्वान् विजेष्यामि त्वत्प्रसादान् महेश्वर
ईश्वर उवाच:
स्वप्ने ऽपि त्रिदशाः सर्वे न योद्धव्याः कदाचन ।
असंभाव्यं न वक्तव्यं मनसो यन्न रोचते
अन्यं किमपि याचस्व यस्ते मनसि वर्तते ।
स्वर्गे वा यदि वा मर्त्ये पातालेषु च संस्थितान्
मर्त्येषु विविधान् भोगान् भोक्ष्यसि त्वं यथेप्सितान् ।
कुरु निष्कण्टकं राज्यं स्वर्गे देवपतिर्यथा
देवस्य वचनं श्रुत्वा सो ऽन्धको विमनाः स्थितः ।
वृथा क्लेशश्च मे जातो न किंचित् साधितं मया
निश्वासं परमं मुक्त्वा निपपात धरातले ।
मूलच्छिन्नो यथा वृक्षो निरुच्छ्वासस् तदाभवत्
मूर्च्छापन्नं ततो दृष्ट्वा देवी वचनम् अब्रवीत् ।
यं कामं कामयत्येष तमस्मै देहि शङ्कर
भक्तानुपेक्षमाणस्य तवाकीर्तिर् भविष्यति
ईश्वर उवाच:
यदि दास्ये वरं देवि इच्छाभूतं कदाचन ।
ततो न मंस्यते विष्णुं न ब्रह्माणं न मामपि
उच्चत्वमाप्तो देवेशि अन्यानपि सुरासुरान्
देव्युवाच:
कमप्युपायमाश्रित्य उत्थापय महेश्वर ।
विष्णुवर्जं सुरान्सर्वाञ्जयस्वेति वरं वद
ईश्वर उवाच:
उपायः शोभनो देवि यो मे मनसि वर्तते ।
तमेवास्मै प्रदास्यामि यस्त्वया कथितो वरः
ततो ऽमृतेन संसिक्तः स्वस्थो ऽभूत् तत्क्षणाद् अयम् ।
तथा पुनर्नवो जातः सर्वावयवशोभितः
शृणुष्वैकमना भूत्वा गृहाण वरमुत्तमम् ।
विष्णुवर्जं प्रदास्यामि यत्तवाभिमतं प्रियम्
सर्वं च सफलं तुभ्यं मा धर्मस्ते ऽन्यथा भवेत् ।
ददामीति वरं तुभ्यं मन्यसे यदि चासुर
विष्णुवर्जं सुरान् सर्वाञ्जेष्यसि त्वं च मां विना
अन्धक उवाच:
भवत्वेवम् इति प्राह बलमास्थाय केवलम् ।
विष्णुवर्जं विजेष्ये ऽहं स्वबलेन महेश्वर
कृतार्थो ऽहं हि संजात इत्युक्त्वा प्रणतिं गतः ।
गच्छ देवोमयासार्द्धं कैलासशिखरं वरम्
वृषपुंगवम् आरुह्य देवो ऽसावुमया सह ।
वरं दत्त्वा स तस्यैवं तत्रैवान्तरधीयत
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0