भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 44

44.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 44
श्रीमार्कण्डेय उवाच:
तीर्थानां परमं तीर्थं तच्छृणुष्व नराधिप ।
रेवाया दक्षिणे कूले निर्मितं शूलपाणिना

44.2

मोक्षार्थं मानवेन्द्राणां निर्मितं नृपसत्तम ।
युधिष्ठिर उवाच:
श्रुता मे विविधा धर्मास्तीर्थानि विविधानि च ।
दानधर्माः समस्ताश्च त्वत्प्रसादाद्द्विजोत्तम

44.3

अन्यच्च श्रोतुमिच्छामि संसारश्छिद्यते यथा ।
पुनरागमनं नास्ति मोक्षप्राप्तिर्भवेद् यथा

44.4

एतदाख्याहि मे सर्वं प्रसादाद् द्विजसत्तम

44.5

मार्कण्डेय उवाच:
शृणुष्वैकमना भूत्वा तीर्थात् तीर्थान्तरं महत् ।
श्रुते यस्य प्रभावे तु मुच्यते चाब्दिकादघात्

44.6

वाचिकैर्मानसैर्वापि शारीरैश्च विशेषतः ।
कीर्तनात् तस्य तीर्थस्य मुच्यते सर्वपातकैः

44.7

पञ्चक्रोशप्रमाणं तु तच्च तीर्थं महीपते ।
भुक्तिमुक्तिप्रदं दिव्यं प्राणिनां पापकर्मिणाम्

44.8

रेवाया दक्षिणे कूले पर्वतो भृगुसंज्ञितः ।
तस्य मूर्ध्नि च तत्तीर्थं स्थापितं चैव शम्भुना

44.9

शूलभेदेति विख्यातं त्रिषु लोकेषु भूपते ।
तत्र स्थिताश्च ये वृक्षास्तीर्थाच्चैव चतुर्दिशम्

44.10

पतिता निलयं यान्ति रुद्रस्य नात्र संशयः ।
मृतास्तत्रैव ये केचिज् जन्तवो भुवि पक्षिणः

44.11

ते यान्ति परमं लोकं तत्र तीर्थे न संशयः ।
पातालान् निःसृता गङ्गा भोगवतीतिसंज्ञिता

44.12

निष्क्रान्ता शूलभेदाच् च सर्वपापक्षयंकरी ।
या सा गीर्वाणनाम्न्यन्या वहेत् पुण्या महानदी

44.13

पतिता कुण्डमध्ये तु यत्र भिन्नं त्रिशूलिना ।
शम्भुना च पुरा तात उत्पाद्य च सरस्वती

44.14

सा तत्र पतिता राजन् प्राचीनाघविमोचिनी ।
भास्वत्या त्रितयं यत्र शिला गीर्वाणसंज्ञिता

44.15

तत्र तीर्थे च तत्तीर्थं न भूतं न भविष्यति ।
केदारं च प्रयागं च कुरुक्षेत्रं गया तथा

44.16

अन्यानि च सुतीर्थानि कलां नार्हन्ति षोडशीम् ।
पञ्च स्थानानि तीर्थानि पृथग्भूतानि यानि च

44.17

वक्ष्यामि च समासेन एकैकं च पृथक्पृथक् ।
गया नाभ्यां यथा पुण्या चक्रतीर्थं च तत्समम्

44.18

धर्मारण्ये यथा कूपं शूलभेदं च तत्समम् ।
ब्रह्मयूपं यथा पुण्यं देवनद्यास्तथैव च

44.19

यथा गयाशिरः पुण्यं सुराणां च यथा शिला ।
यथा च पुष्करं स्थानं मार्कण्डह्रद एव च

44.20

दत्त्वा पिण्डोदकं तत्र पिण्डाणां च तथाक्षयम् ।
यस् तत्र कुरुते श्राद्धं तोयं पिबति नित्यशः ।
मुच्यते सर्वपापैस्तु उरगः कञ्चुकैरिव ।
अनिन्द्यान्पूजयेद् विप्रान् दम्भक्रोधविवर्जितान्

44.21

त्रयोदशदिनं दानं त्रयोदशगुणं भवेत् ।
अभ्यर्चितं सुरं दृष्ट्वा गणनाथं गजाननम्

44.22

सर्वे विघ्ना विनश्यन्ति दृष्ट्वा कम्बलक्षेत्रपम्

44.23

पूजयेत्परया भक्त्या शूलपाणिं महेश्वरम्

44.24

देवस्य पूर्वभागे तु उमा पूज्या प्रयत्नतः ।
मार्कण्डेशं ततो भक्त्या पूजयेद् गुहवासिनम्

44.25

मुच्यन्ते पातकैः सर्वैर् अज्ञानज्ञानसंचितैः ।
गुहामध्ये प्रविष्टस्तु जपेत् सूक्तं तु त्र्यक्षरम्

44.26

नीलपर्वतजं पुण्यं षष्ठांशेन लभेत सः ।
त्रिनरास् तत्र तिष्ठन्ति सादित्यमरुतैः सह

44.27

सर्वदेवमयं स्थानं कोटिलिङ्गमनुत्तमम् ।
यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम्

44.28

तथा पापानि नश्यन्ति शूलभेदस्य दर्शनात् ।
प्रत्यक्षो दृश्यते ऽद्यापि प्रत्ययो ह्यवनीपते

44.29

विस्फुलिङ्गा लिङ्गमध्ये स्पन्दन्ते स्नानयोगतः ।
द्वितीयः प्रत्ययस् तत्र तैलबिन्दुर् न सर्पति

44.30

एवं हि प्रत्ययस् तत्र शूलभेदप्रभावजः ।
यः स्मरेच्छूलभेदं तु त्रिकालं नित्यमेव च

44.31

स पूतश्च भवेत्साक्षात् सबाह्याभ्यन्तरो नृप ।
न कस्यचिन् मया ख्यातं पृष्टो ऽहं त्रिदशैरपि

44.32

गुह्याद्गुह्यतरं तीर्थं सदा गोप्यं कृतं मया ।
सर्वपापहरं पुण्यं सर्वदोषघ्नमुत्तमम्

44.33

सर्वतीर्थमयं तीर्थं शूलभेदं जनेश्वर ।
श्रुते यस्य प्रभावे तु मुच्यते सर्वपातकैः

44.34

शूलभेदं मया तात संक्षेपात् कथितं तव ।
यः शृणोति नरो भक्त्या मुच्यते सर्वपातकैः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc