रेवाखाण्ड (संशोधित पाठ) · अध्याय 43
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये पिप्पलादतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 43
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र विमलेश्वरम् उत्तमम् ।
तत्र देवशिला रम्या स्वयं देवैर् विनिर्मिता
तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान्पूजयेन् नृप ।
स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते
युधिष्ठिर उवाच:
कानि दानानि विप्रेन्द्र शस्तानि धरणीतले ।
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः
श्रीमार्कण्डेय उवाच:
सुवर्णं रजतं ताम्रं मणिमौक्तिकमेव च ।
भूमिदानं च गोदानं मोचयत् पशुभान्नरम्
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् ।
रुद्रलोके वसेत् तावद् यावद् आ भूतसम्प्लवम्
ततः पुष्करिणीं गच्छेत् सर्वपापक्षयंकरीम् ।
तत्र स्नात्वार्चयेद्देवं तेजोराशिं दिवाकरम्
ऋचमेकां जपेत् साम्नः सामवेदफलं लभेत् ।
यजुर्वेदस्य जपनाद् ऋग्वेदस्य तथैव च
अक्षरं वा जपेन् मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः
तत्र तीर्थे तु यः स्नात्वा विधिना जपेद्द्विजान् ।
तस्य कोटिगुणं पुण्यं जायते नात्र संशयः
अनाशकेनाग्निगत्या जले वा देहपातनात् ।
तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम्
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम ।
विहितं कर्म कुर्वाणः स गच्छेत् परमां गतिम्
युधिष्ठिर उवाच:
व्याधिं सत्त्वक्षयं मोहं ज्ञात्वा वर्णा द्विजोत्तम ।
पापेभ्यो विप्रमुच्यन्ते केन तत्साधनं वद
श्रीमार्कण्डेय उवाच:
तिलोदकी तिलस्नायी कामक्रोधविवर्जितः ।
ब्राह्मणो ऽनशनैः प्राणांस् त्यजल्लभति सद्गतिम्
सङ्ग्रामे सद्गतिं तात क्षत्रियो निधने लभेत् ।
तदभावान्महाप्राज्ञ सेवमानो लभेद् इति
व्याधिग्रहगृहीतो वा वृद्धो वा विकलेन्द्रियः ।
आत्मानं दाहयित्वाग्नौ विधिना सद्गतिं लभेत्
वैश्यो ऽपि हि त्यजन्प्राणानेवं वै शुभभाग् भवेत् ।
जले वा शुद्धभावेन त्यक्त्वा प्राणाञ्छिवो भवेत्
शूद्रो ऽपि द्विजशुश्रूषुस्तोषयित्वा महेश्वरम् ।
विमुच्य नान्यथा पापः पतते नरके ध्रुवम्
अथवा प्रणवाशक्तो द्विजेभ्यो गुरवे तथा ।
पञ्चाग्नौ शोषयेद्देहमापृच्छ्य द्विजसत्तमान्
शान्तदान्तजितक्रोधाञ्छास्त्रयुक्तान् विचक्षणान् ।
तेषां चैवोपदेशेन करीषाग्निं प्रसाधयेत्
एवं वर्णा यथात्वेन मूढाहङ्कारमोहिताः ।
पतन्ति नरके घोरे यथान्धो गिरिगह्वरे
ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामचारतः ।
कृमियोनिं प्रपद्यन्ते तेषां पिण्डो न च क्रिया
श्रुतिस्मृत्युदितं धर्मं त्यक्त्वा यथेच्छाचारसेविनः ।
अष्टाविंशतिर्वै कोट्यो नरकाणां युधिष्ठिर
प्रत्येकं वा पतन्त्येते मग्ना नरकसागरे ।
दुर्लभं मानुषं जन्म बहुधर्मार्जितं नृप
तल्लब्ध्वा मदमात्सर्यं यो वै त्यजति मानवः ।
संनियम्य सदात्मानं ज्ञानचक्षुर् नरो हि सः
अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया
यस्य नोन्मीलितं चक्षुर्ज्ञेयो जात्यन्ध एव सः ।
एतत्ते कथितं सर्वं यत्पृष्टं नृपसत्तम
तथानिष्टतराणां हि रुद्रस्य वचनं यथा ।
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद् विनिःसृता
तारयेत् सर्वभूतानि स्थावराणि चराणि च ।
सर्वदेवाधिदेवेन ईश्वरेण महात्मना
लोकानां च हितार्थाय महापुण्यावतारिता ।
मानसं वाचिकं पापं स्नानान्नश्यति कर्मजम्
रुद्रदेहाद्विनिष्क्रान्ता तेन पुण्यतमा हि सा ।
प्रातरुत्थाय यो नित्यं भूमिमाक्रम्य भक्तितः
एतन्मन्त्रं जपेत्तात स्नानस्य लभते फलम् ।
नमः पुण्यजले देवि नमः सागरगामिनि
नमोऽस्तु पापनिर्मोचे नमो देवि वरानने
नमो ऽस्तु ते ऋषिवरसङ्घसेविते नमो ऽस्तु ते त्रिनयनदेहनिःसृते ।
नमो ऽस्तु ते सुकृतवतां सदा वरे नमो ऽस्तु ते सततपवित्रपावनि
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0