रेवाखाण्ड (संशोधित पाठ) · अध्याय 42
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कुण्डलेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 42
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् ।
यत्र सिद्धो महायोगी पिप्पलादो महातपाः
युधिष्ठिर उवाच:
पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं विभो ।
माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः
कस्य पुत्रो महाभाग किमर्थं कृतवांस्तपः ।
एतद्विस्तरतः सर्वं कथयस्व ममानघ
मार्कण्डेय उवाच:
मिथिलास्थो महाभागो वेदवेदाङ्गपारगः ।
याज्ञवल्क्यः पुरा तात चचार विपुलं तपः
तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः ।
सा सप्तमे ऽपि वर्षे च वैधव्यं प्राप दैवतः
पूर्वकर्मविपाकेन हीनाभूत्पितृमातृतः ।
नाभूत्तत्पतिपक्षे ऽपि कोऽपीत्येकाकिनी स्थिता
भूमौ भ्रमन्ती भ्रातुः सा समीपमगमच्छनैः ।
चचार च तपः सो ऽपि परलोकसुखेप्सया
चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः ।
कस्मिंश्चित् समये साथ स्नाताहनि रजस्वला
अन्तर्वासो धृतवती दृष्ट्वा कर्पटकं रहः ।
याज्ञवल्क्यो ऽपि तद्रात्रौ सुप्तो यत्र सुसंवृतः
स्वप्नं दृष्ट्वात्यजच्छुक्रं कौपीने रक्तबिन्दुवत् ।
विराजितेन तपसा सिद्धं तदनलप्रभम्
यावत्प्रबुद्धो विप्रो ऽसौ वीक्ष्योच्छिष्टं तद् अंशुकम् ।
चिक्षेप दूरतो ऽस्पृश्यं शौचं कृत्वा विधानतः
निषिद्धं तु निशि स्नानमिति सुष्वाप स द्विजः ।
निशीथे सापि तद्वस्त्रं भगस्यावरणं व्यधात्
प्रातर् अन्वेषयामास मुनिर्वस्त्रमितस्ततः ।
ततः सा ब्राह्मणी प्राह किं अन्वेषयसे प्रभो ।
केन कार्यं तव तथा वदस्व मम तत्त्वतः
याज्ञवल्क्य उवाच:
अपवित्रो मया भद्रे स्वप्नो दृष्टो ऽद्य वै निशि ।
सक्लेदं तत्र मे वस्त्रं निक्षिप्तं तन्न दृश्यते
तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीतावदन् नृप ।
तद्वस्त्रं तु मया विप्र स्नात्वा ह्यन्तः कृतं महत्
तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महामुनिः ।
निपपात तदा भूमौ छिन्नमूल इव द्रुमः
किमेतदिति सेत्युक्त्वा ह्याकाशमिव निर्मला ।
आश्वासयन्ती तं विप्रं प्रोवाच वचनं तदा
वदस्व कारणं तात गुह्याद् गुह्यतरं यदि ।
प्रतीकारो ऽस्य येनैव विमृश्य क्रियते त्वरा
ततः स सुचिरं ध्यात्वा लब्धवाग्वै ततः क्षणम् ।
प्रोवाच साध्वसमना यत्तच्छृणु नरेश्वर
नात्र दोषो ऽस्ति ते कश्चिन्मम चैव शुभव्रते ।
तवोदरे तु गर्भो यस्तत्र दैवं परायणम्
तस्य तत्त्वेन रक्षा च त्वया कार्या सदैव हि ।
विनाशी नैव कर्तव्यो यावत्कालस्य पर्ययः
तथेति व्रीडिता साध्वी दूयमानेन चेतसा ।
अपालयच्च तं गर्भं यावत्पुत्रो ह्यजायत
जातमात्रं च तं गर्भं गृहीत्वा ब्राह्मणी च सा ।
अश्वत्थच्छायाम् आश्रित्य तम् उत्सृज्य वचो ऽब्रवीत्
यानि सत्त्वानि लोकेषु स्थावराणि चराणि च ।
तानि सर्वाणि रक्षन्तु त्यक्तं वै बालकं मया
एवमुक्त्वा गता सा तु ब्राह्मणी नृपसत्तम ।
तथागतः स तु शिशुस् तत्र स्थित्वा मुहूर्तकम्
पाणिपादौ विनिक्षिप्य निकुञ्च्य नयने शुभे ।
आस्यं तु विकृतं कृत्वा रुरोद विकृतैः स्वरैः
तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये ।
आकम्पिता महोत्पातैः सशैलवनकानना
ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् ।
न जहाति नगश्छायां पानार्थाय ततः परम् ।
अपिबच्च सुतं तस्मादभृतं चैव भारत
एवं स वर्धितस् तत्र कुमारो निजचेतसि ।
चिन्तयामास विश्रब्धः किं मम ग्रहगोचरम्
ततः क्रूरसभाचारः क्रूरं दृष्ट्वा निरीक्षितः ।
पपात सहसा भूमौ शनैश्चारी शनैश्चरः
उवाच च भयत्रस्तः कृताञ्जलिपुटस्तदा ।
किं मयापकृतं विप्र पिप्पलाद महामुने
चरन्वै गगनाद् येन पातितो धरणीतले ।
सौरिणा ह्येवमुक्तस्तु पिप्पलादो महामुनिः
क्रोधरूपो ऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप ।
पितृमातृविहीनस्य मम बालस्य दुर्मते ।
पीडां करोषि कस्मात् त्वं सौरे ब्रूहि ह्यशेषतः
शनैश्चर उवाच:
क्रूरस्वभावः सहजो मम दृष्टिस्तथेदृशी ।
मुञ्चस्व मां तथा कर्ता यद्ब्रवीषि न संशयः
पिप्पलाद उवाच:
अद्यप्रभृति बालानां वर्षाद् आ षोडशाद्ग्रह ।
पीडा त्वया न कर्तव्या एष ते समयः कृतः
एवमस्त्विति चोक्त्वा स जगाम पुनरागतः ।
देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम्
गते चादर्शनं तत्र सो ऽपि बालो महाग्रहः ।
विचिन्तयन्वै पितरं क्रोधेन कलुषीकृतः
आग्नेयीं धारणां ध्यात्वा जनयामास पावकम् ।
कृत्यामन्त्रैर्जुहावाग्नौ कृत्या वै संभवत्विति
तावज्झटिति सा कन्या ज्वालामालाविभूषिता ।
हुतभुक्सदृशाकारा किं करोमीति चाब्रवीत्
शोषयामि समुद्रान् किं चूर्णयामि च पर्वतान् ।
अवनिं वेष्टयामीति पातये किं नभस्तलम्
कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज ।
शीघ्रमादिश्यतां कार्यं मा मे कालात्ययो भवेत्
तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः ।
क्रोधसंरक्तनयन इदं वचनम् अब्रवीत्
महता क्रोधवेगेन मया त्वं चिन्तिता शुभे ।
पिता मे याज्ञवल्क्यश्च तस्य त्वं पत माचिरम्
एवमुक्त्वागमच्छीघ्रं स्फोटयन्ती नभस्तलम् ।
मिथिलास्थो महाप्राज्ञस्तपस्तेपे महामनाः
यावत्पश्यति दिग्भागं ज्वलनार्कसमप्रभम् ।
याज्ञवल्क्यो महातेजा महद्भूतमुपस्थितम्
तद् दृष्ट्वा सहसायान्तं भीतभीतो महामुनिः ।
अनुयुक्तो ऽथ भूतेन जनकं नृपतिं ययौ
शरण्यं माम् अनुप्राप्तं विद्धि त्वं नृपसत्तम ।
महद्भूतभयाद्रक्ष यदि शक्नोषि पार्थिव
ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् ।
न च शक्नोम्यहं त्रातुं राजा वचनम् अब्रवीत्
ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः ।
जगाम तेन मुक्तो ऽसौ चेन्द्रस्य सदनं भयात्
देवराज नमस्ते ऽस्तु महाभूतभयान्नृप ।
कम्पमानो ऽब्रवीद् विप्रो रक्षस्वेति पुनःपुनः
तस्य तद्वचनं श्रुत्वा देवराजो ऽब्रवीद् इदम् ।
न शक्नोमि परित्रातुं ब्रह्मकोपादहं मुने
ततः स ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः ।
जगाम विष्णुलोकं च तेनापीत्युक्त एव सः
ततः स मुनिरुद्विग्नो निराशो जीविते नृप ।
अनुगम्यमानो भूतेन अगच्छच्छङ्करालयम्
तस्य योगबलोपेतो महादेवस्य पाण्डव ।
नखमांसान्तरे गुप्तो यथा देवो न पश्यति
तदन्ते चागमद्भूतं ज्वलनार्कसमप्रभम् ।
मुञ्च मुञ्चेति पुरुषं देवदेवं महेश्वरम्
एवमुक्तो महादेवस् तेन भूतेन भारत ।
योगीन्द्रं दर्शयामास नखमांसान्तरे तदा
संस्थाप्य भूतं भूतेशः परमापद्गतं मुनिम् ।
उवाच मा भैस्त्वं विप्र निर्गच्छस्व महामुने
ततः सुसूक्ष्मदेहस्थं भूतं दृष्ट्वाब्रवीदिदम् ।
किमस्य त्वं महाभूत करिष्यसि वदस्व मे
कृत्योवाच:
क्रोधाविष्टेन देवेश पिप्पलादेन चिन्तिता ।
अस्य देहं हनिष्यामि हिंसार्थं विद्धि मां प्रभो
एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् ।
कटिस्थं याज्ञवल्क्यं च मन्त्रयामास मन्त्रवित्
योगीश्वरेति विप्रस्य कृत्वा नाम युधिष्ठिर ।
विसर्जयित्वा देवेशस्तत्रैवान्तरधीयत
प्रेषयित्वा तु तं भूतं पिप्पलादो ऽपि दुर्मनाः ।
पितृमातृसमुद्विग्नो नर्मदातटमाश्रितः
एकाङ्गुष्ठो निराहारो वर्षाद् आ षोडशान् नृप ।
तोषयामास देवेशमुमया सह शङ्करम्
ततस्तत्तपसा तुष्टः शङ्करो वाक्यमब्रवीत्
ईश्वर उवाच:
परितुष्टो ऽस्मि ते विप्र तपसानेन सुव्रत ।
वरं वृणीष्व ते दद्मि मनसा चेप्सितं शुभम्
पिप्पलाद उवाच:
यदि मे भगवांस् तुष्टो यदि देयो वरो मम ।
अत्र संनिहितो देव तीर्थे भव महेश्वर
एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् ।
जगामादर्शनं देवो भूतसङ्घसमन्वितः
पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि ।
स्थापयित्वा महादेवं जगामोत्तरपर्वतम्
तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतं नृप ।
तर्पयित्वा पित्ःन् देवान् पूजयेच्च महेश्वरम्
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
मृतो रुद्रपुरं याति नात्र कार्या विचारणा
अथ यो भोजयेद् विप्रान् पित्ःन् उद्दिश्य भारत ।
तस्य ते द्वादशाब्दानि मोदन्ते दिवि तर्पिताः
संन्यासेन तु यः कश्चित् तत्र तीर्थे तनुं त्यजेत् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकात् कदाचन
एतत्सर्वं समाख्यातं यत्पृष्ठे हि त्वयानघ ।
माहात्म्यं पिप्पलादस्य तीर्थस्योत्पत्तिरेव च
एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।
पठतां शृण्वतां चैव सर्वपापक्षयो भवेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0