भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 40

40.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये कपिलातीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 40
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरम् उत्तमम् ।
यत्र सिद्धो महाभागो दैत्यो लोकेषु विश्रुतः

40.2

युधिष्ठिर उवाच:
यो ऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः ।
कस्य पुत्रः कथं सिद्धः कस्मिन्काले वद द्विज

40.3

मार्कण्डेय उवाच:
पुरा कृतयुगे राजन्मानसो ब्रह्मणः सुतः ।
वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः

40.4

तस्यापि तपसो राशेः कालेन महतानघ ।
पुत्रो ऽथ मानसो जातः साक्षाद् ब्रह्मेव चापरः

40.5

क्षमा दमो दया दानं सत्यं शौचम् अथार्जवम् ।
मरीचेश्च गुणा ह्येते सन्ति तस्य च भारत

40.6

एवं गुणगणाकीर्णं कश्यपं द्विजसत्तमम् ।
ज्ञात्वा प्रजापतिर् दक्षो भार्यार्थे स्वसुतां ददौ

40.7

अदितिर्दितिर्दनुश्चैव तथाप्येवं दशापराः ।
यासां पुत्राश्च संजाताः पौत्राश्च भरतर्षभ

40.8

अदितिर्जनयामास पुत्रान् इन्द्रपुरोगमान् ।
जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः

40.9

यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् ।
तथान्यस्य महाभागो दनोः पुत्रो व्यजायत

40.10

सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः ।
बाल एव महाभाग चचार स महत्तपः

40.11

नर्मदातटमाश्रित्य चातिघोरम् अनुत्तमम् ।
दिव्यं वर्षसहस्रं च कृच्छ्रचान्द्रायणं नृप

40.12

शाकमूलफलाहारः स्नानहोमपरायणः ।
ततस्तुष्टो महादेव उमया सहितः किल

40.13

वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः ।
भोः करञ्ज महासत्त्व परितुष्टो ऽस्मि ते ऽनघ

40.14

वरं वृणीष्व ते दद्मि ह्यमरत्वमृते मम

40.15

करञ्ज उवाच:
यदि तुष्टो महादेव यदि देयो वरो मम ।
तर्हि पुत्राश्च पौत्राश्च सन्तु मे धर्मवत्सलाः

40.16

तथेत्युक्त्वा महादेव उमया सहितस् तदा ।
वृषारूढो गणैः सार्द्धं तत्रैवान्तरधीयत

40.17

गते चादर्शनं देवे सो ऽपि दैत्यो मुदान्वितः ।
स्वनाम्नात्र महादेवं स्थापयित्वा ययौ गृहम्

40.18

तदाप्रभृति तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
स्नानमात्रानरस्तत्र मुच्यते सर्वपातकैः

40.19

तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
सो ऽग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्य् असंशयम्

40.20

अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
अनिवर्त्या गतिस्तस्य रुद्रलोकं स गच्छति

40.21

अथवाग्निजले प्राणान्यस्त्यजेद् धर्मनन्दन ।
अयुतद्वितयं वस्ते वर्षाणां शिवमन्दिरे

40.22

ततश्चैव क्षये जाते जायते विमले कुले ।
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः

40.23

राजा वा राजतुल्यो वा जीवेच्च शरदः शतम् ।
पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः

40.24

एवं ते सर्वमाख्यातं पृष्टं यद्यत्त्वयानघ ।
तीर्थस्य तु फलं तस्य स्नानदानेषु भारत

40.25

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।
पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम्

40.26

यस्तु श्रावयते श्राद्धे पठेत् पितृपरायणः ।
अक्षयं जायते पुण्यमित्येवं शङ्करो ऽब्रवीत्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc