रेवाखाण्ड (संशोधित पाठ) · अध्याय 41
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करञ्जेश्वरतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशो ऽध्यायः ॥
र्क्व् अध्याय 41
श्रीमार्कण्डेय उवाच:
ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् ।
यत्र सिद्धो महायक्षः कुण्डधारो नृपोत्तम
तपः कृत्वा सुविपुलं सुरासुरभयंकरम् ।
पौलस्त्यमन्दिरे चैव चिक्रीड नृपसत्तम
युधिष्ठिर उवाच:
कस्मिन्युगे समुत्पन्नः कस्य पुत्रो महामतिः ।
तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः
एतद्विस्तरतस्तात कथयस्व ममानघ ।
शृण्वतश्च न तृप्तिर् मे कथामृतमनुत्तमम्
श्रीमार्कण्डेय उवाच:
त्रेतायुगे ब्रह्मसमः पौलस्त्योनाम विश्रवाः ।
तपः कृत्वा सुविपुलं भरद्वाजसुतोद्भवः
पुत्रं पौत्रगणैर् युक्तं पत्न्या भक्त्या सुतोषितः ।
धनदं जनयामास सर्वलक्षणलक्षितम्
जातमात्रं तु तं ज्ञात्वा ब्रह्मा लोकपितामहः ।
चकार नाम सुप्रीत ऋषिदेवसमन्वितः
यस्माद् विश्रवसो जातो मम पौत्रत्वम् आगतः ।
तस्माद् वैश्रवणो नाम तव दत्तं मयानघ
तथा त्वं सर्वदेवानां धनगोप्ता भविष्यसि ।
चतुर्थो लोकपालानामक्षयश्चाव्ययो भुवि
तस्य भार्या महाराज ईश्वरीति च विश्रुता ।
यक्षो यक्षाधिपः श्रेष्ठस्तस्य कुण्डो ऽभवत् सुतः
स च रूपं परं प्राप्य मातापित्रोरनुज्ञया ।
तपश् चचार विपुलं नर्मदातटमाश्रितः
ग्रीष्मे पञ्चाग्निसंतप्तो वर्षासु स्थण्डिलेशयः ।
हेमन्ते जलमध्यस्थो वायुभक्षः शतं समाः
एवं वर्षशते पूर्णे एकाङ्गुष्ठे ऽभवन् नृप ।
अस्थिभूतः परं तात ऊर्ध्वबाहुस्ततः परम्
अतपच्च घृतश्वासः कुण्डलो भरतर्षभ ।
चतुर्थे वर्षशतके तुतोष वृषवाहनः
वरं वृणीष्व भो वत्स यत्ते मनसि रोचते ।
ददामि ते न सन्देहस्तपसा तोषितो ह्यहम्
कुण्डल उवाच:
यक्षाधिपप्रसादेन तस्यैवानुचरः पुरे ।
विचरामि यथाकाममवध्यः सर्वशत्रुषु
तथेत्युक्त्वा महादेवः सर्वलोकनमस्कृतः ।
जगामाकाशमाविश्य कैलासं धरणीधरम्
गते चादर्शनं देवे सो ऽपि यक्षो मुदान्वितः ।
स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम्
अलंकृत्वा जगन्नाथं पुष्पधूपानुलेपनैः ।
विमानैश्चामरैश्छत्रैस् तथा वै लिङ्गपूरणैः
तर्पयित्वा द्विजान्सम्यगन्नपानादिभूषणैः ।
प्रीणयित्वा महादेवं ततः स्वभवनं ययौ
तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
उत्तमं परमं पुण्यं कुण्डलेश्वरनामतः
तत्र तीर्थे तु यः कश्चिद् उपवासपरायणः ।
अर्चयेद् देवमीशानं सर्वपापैः प्रमुच्यते
सुवर्णं रजतं वापि मणिं मौक्तिकमेव च ।
दद्याद् भोज्यं ब्राह्मणेभ्यः स सुखी मोदते दिवि
तत्र तीर्थे तु यः स्नात्वा ऋग्यजुःसामगो ऽपि वा ।
ऋचमेकां जपित्वा तु सकलं फलमश्नुते
गां प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
स्वर्गे वासो भवेत्तस्य पुत्रपौत्रैः समन्वितः
तावन्ति वर्षाणि महानुभावः स्वर्गे वसेत् पुत्रपौत्रैश्च सार्द्धम् ।
तत्रान्नदो याति महेशलोकमसंख्यवर्षाणि न संशयो ऽत्र
स वै सुखी मोदते स्वर्गलोके गन्धर्वसिद्धाप्सरःसम्प्रगीते ।
एवं तु ते धर्मसुत प्रभावस्तीर्थस्य सर्वः कथितश्च पार्थ
श्रुत्वा स्तुवन्मुच्यते सर्वपापैः पुनस्त्रिलोकीम् इह तत्प्रभावात्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0