भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 39

39.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 39
श्रीमार्कण्डेय उवाच:
ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम् ।
स्नानमात्रान्नरो भक्त्या मुच्यते सर्वकिल्बिषैः

39.2

युधिष्ठिर उवाच:
आश्चर्यभूतं लोकेषु कथितं द्विजसत्तम ।
नर्मदेश्वरमाहात्म्यं कापिलं कथयस्व मे

39.3

यस्मिन् काले ऽथ सम्बन्धे उत्पन्नं तीर्थम् उत्तमम् ।
सर्वपापहरं पुण्यं तीर्थं जातं कथं प्रभो

39.4

मार्कण्डेय उवाच:
शृणु वक्ष्येऽद्य ते राजन्कपिलातीर्थमुत्तमम् ।
येन ते विस्मयः सर्वः श्रुत्वा गच्छति भारत

39.5

पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः ।
उत्पादयित्वा सकलं भूतग्रामं चतुर्विधम्

39.6

जपहोमपरो भक्त्या क्षणं ध्यात्वा च तिष्ठति ।
ज्वलमानात् तु कपिला तावत् कुण्डात्समुत्थिता

39.7

अग्निज्वालोज्ज्वलैः शृङ्गैस्त्रिनेत्रा सुपयस्विनी ।
अग्निपूर्णा ह्यग्निमुखा अग्निघ्राणाग्निलोचना

39.8

अग्निखुरा ह्यग्निपृष्ठा अग्निसर्वाङ्गसंस्थितिः ।
सर्वलक्षणसम्पूर्णा घण्टाललितनिःस्वना

39.9

दृष्ट्वा तु तां महाभागां कपिलां कुण्डमध्यगाम् ।
ब्रह्मा लोकगुरुस्तात प्रणम्येदम् उवाच ह

39.10

नमस्ते कपिले पुण्ये सर्वलोकनमस्कृते ।
मङ्गल्ये मङ्गले देवि त्रिषु लोकेष्वनुपमे

39.11

त्वं लक्ष्मीस्त्वं स्मृतिर्मेधा त्वं धृतिस्त्वं वरानने ।
उमादेवीति विख्याता त्वं सती नात्र संशयः

39.12

वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने ।
कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च

39.13

कालरात्रिस्तु भूतानां कुमारी परमेश्वरी ।
त्वं लवस्त्वं त्रुटिश्चैव मुहूर्तं लक्षमेव च

39.14

संवत्सरस्त्वं मासस्त्वं कालस्त्वं च क्षणस्तथा ।
नास्ति किंचित् त्वया हीनं त्रैलोक्ये सचराचरे

39.15

एवं स्तुता तु मानेन कपिला परमेष्ठिना ।
तमुवाच महाभागं प्रहृष्य पद्मसम्भवम्

39.16

प्रसन्ना तव वाक्येन देवदेव जगद्गुरो ।
किं करोमि प्रियं ते ऽद्य ब्रूहि सर्वं पितामह

39.17

ब्रह्मोवाच:
जगद्धिताय जनिता मया त्वं परमेश्वरि ।
स्वर्गान्मर्त्यं ततो याहि लोकानां हितकाम्यया

39.18

सर्वदेवमयी त्वं तु सर्वलोकमयी तथा ।
विधिना ये प्रदास्यन्ति तेषां वासस्त्रिविष्टपे

39.19

एवमुक्त्वा ततो देवी ब्रह्माणं परमेश्वरी ।
वन्द्यमाना सुरैः सिद्धैर् आजगाम धरातलम्

39.20

युधिष्ठिर उवाच:
यदायातेह सा तात ब्राह्मणो वचनाच्छुभा ।
तदा देवाश्च लोकाश्च कथमङ्गेषु संस्थिताः

39.21

कथं वा संस्थितागत्य कपिला सा द्विजोत्तम ।
तीर्थे वा ह्यूषरे क्षेत्र एतन्मे कथय द्विज

39.22

मार्कण्डेय उवाच:
सा तदा ब्रह्मणा चोक्ता धात्रा लोकस्य भारत ।
ब्रह्मलोकाद्गता पुण्यां नर्मदां लोकपावनीम्

39.23

तपः कृत्वा सुविपुलं नर्मदातटम् आश्रिता ।
चचार पृथिवीं सर्वां सशैलवनकाननाम्

39.24

तदाप्रभृति राजेन्द्र कपिलातीर्थम् उत्तमम् ।
सर्वपापहरं ख्यातमृषिसङ्घैर् निषेवितम्

39.25

तत्तीर्थे विधिवत् स्नात्वा कपिलायाः प्रयच्छति ।
पृथ्वी तेन भवेद्दत्ता सशैलवनकानना

39.26

तां तु पश्यति यो भक्त्या दीयमानां द्विजोत्तमे ।
तस्य वर्षशतं पापं नश्यते नात्र संशयः

39.27

भूर्भुवः स्वर्महश्चैव जनः सत्यं तपस्तथा ।
ते तत्पृष्ठं समाश्रित्य स्थिता लोका नृपोत्तम

39.28

मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः ।
धाता विधाता ह्योष्ठौ च जिह्वायां तु सरस्वती

39.29

सहस्रकिरणौ देवौ चन्द्रादित्यौ सुलोचनौ ।
नासिकामध्यगश्चैव मारुतो नृपसत्तम

39.30

ललाटे तु महादेवो ह्यश्विनौ कर्णसंस्थितौ ।
नरनारायणौ शृङ्गे शृङ्गमध्ये पितामहः

39.31

कम्बलो ऽधिगतस् तात पाशधृग् वरुणस् तथा ।
यमश्च भगवान्देव आश्रित्य चोदरं श्रितः

39.32

खुरेषु पन्नगाश्चैवं पुच्छाग्रे सूर्यरश्मयः ।
एवम्भूतां हि कपिलां सर्वदेवमयीं नृप

39.33

ये धारयन्ति च गृहे धन्यास्ते नात्र संशयः ।
प्रातर् उत्थाय यस्तस्याः कुरुते तु प्रदक्षिणाम्

39.34

प्रदक्षिणा कृता तेन सशैलवनकानना ।
कपिलापञ्चगव्येन यः स्नापयति शङ्करम्

39.35

उपवासपरो यस्तु तस्मिंस्तीर्थे नराधिप ।
स्नात्वा ह्युक्तविधानेन तर्पयेत् पितृदेवताः

39.36

तस्य ते वंशजाः सर्वे दश पूर्वे दशापरे ।
तृप्ता रोहन्ति वै स्वर्गे ध्यायन्तो ऽस्य मनोरथान्

39.37

एष ते विधिरुद्दिष्टः सम्भवो नृपसत्तम ।
तीर्थस्य च फलं पुण्यं किमन्यत् परिपृच्छसि

39.38

धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc